________________
३०४ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० ३. सू० ६-७.]
'
"नासिकोदर०" [२. ४. ३६.] इति वैकल्पिको डीः, समुदायस्य तु जातिवाचित्वे प्रति- पाये “पाककर्ण०" [२. ४. ५५. ] इति नित्यः; अय इव कर्णायति इति तु कृतेऽचि गौरादित्वाद् डी: । अयस्कुम्भी इत्यत्र गौरादित्वाद् ङीः । शुनस्कर्ण इत्यत्र उष्ट्रमुखादित्वा · से “षष्ठ्याः क्षेपे' [ ३. २. ३०.] अलूप । नन्वयस्कृतमित्यादौ कृगधातूरुत्तरपदं नास्ति त. कथं सकार इत्याह-इह कृ-कम्योरिति । कथं पयस्कामेति-कमेरिणङि 5 "शोलिकामि०" [६. १. ७३.] इति णे-पयःकामा, पिङभावे तु कर्मणोऽणि पयस्कामीति प्राप्नोति, तत् कथं पयस्कामेत्याह-कमनमित्यादि ।। २. ३. ५ ।। .
प्रत्यये ॥ २. ३. ६ ॥
अनव्ययस्य यो रेफस्तस्य प्रत्ययविषयेषु क-ख-प-फेषु सो भवति । पाश-कल्प-काः प्रयोजयन्ति, काम्ये विशेषविधानादन्यस्य चाभावात् । पयस्पा-10 शम्, यशस्पाशम् ; पयस्कल्पम्, यशस्कल्पम् ; पयस्कम्, यशस्कम् । अनव्ययस्येत्येव-स्वःपाशम्, प्रातःकल्पम् । प्रत्यय इति किम् ? पाशो बन्धः, कल्पो विधिः, कं शिरः, पयःपाशः, पयःकल्पः, पयःकम् ।। ६ ।।
न्या० स०--प्रत्यये। अत इतीह नाश्रीयते तेन पयस्कल्पेत्यादि सिद्धम् । इह प्रत्ययेन समासासम्भवाः समास इति सम्बद्धमैक्य इति च नानुवर्तते । प्रत्यय इति 15 किमिति-अत्र प्रत्ययग्रहणाभावे रोः काम्ये चेति कार्यं तस्य चायमर्थः-रो: स्थाने क चकारात् कखपफि च सो भवति, तहि नियमः कथमिति ? उच्यते-कखपफमध्यपातित्वात् काम्यग्रहणे लब्धे यत् काम्यग्रहणं करोति तद् ज्ञापयति-रोरेव काम्ये, ततश्च प्रत्ययग्रहणं विना अयःपाश इत्यादिष्वपि “रो: काम्ये" [२. ३. ७.] इति सूत्रेण सत्वं स्यात्, तन्मा प्रसाङक्षीदिति प्रत्ययग्रहणम् । स्वः- पाशमित्यादिषु प्रौत्सर्गिक नपुंसकत्वम् । पयः-20 कमित्यत्र पयसि कमिति कार्य न तु षष्ठीसमासः, "तृप्ता०" [३.१. ८५.] इति निषेधात् ।। २. ३. ६ ॥
रोः काम्ये ॥ २. ३. ७ ॥
अनव्ययसंबन्धिनो रेफस्य रोरेव काम्यप्रत्यये परे सो भवति । पयस्काम्यति, यशस्काम्यति । रोरिति किम् ? द्वाःकाम्यति, वाःकाम्यति ; 25 अहःकाम्यति । प्रत्यय इत्येव-पुरुषैः काम्यम् । अनव्ययस्येत्येव-अधःकाम्यति । पूर्वेणैव सिद्धे रोरेवेति नियमार्थं वचनम् ॥ ७ ॥
न्या० स०-रोः काम्ये। नियमार्थमिति-विपरीतनियमस्तु “वर्चस्का०"