________________
[पा० ३. सू० ५.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ ३०३
पयस्कंसः; कुम्भ-अयस्कुम्भः, पयस्कुम्भः; द्वन्द्व-पयस्कुम्भकपालानि; कुशाअयस्कुशा; पयस्कुशा; कर्णी-अयस्कर्णी, पयस्कर्णी; पात्र-अयस्पात्रम्, पयस्पात्रम् ; नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणात्-अयस्कुम्भी, पयस्पात्री; शुनस्कर्ण इति तु कस्कादिः । अत इति किम् ? गी:कारः, धूःकारः, भाःकरणम्, वाःपात्रम्, भास्कर इति तु कस्कादिः । कृकम्यादिष्विति किम् ? 5 अयःकीलः, पयःपानम् । अनव्ययस्येति किम् ? स्वःकारः, प्रातःकामः । समास इत्येव-यशः करोति । ऐक्य इत्येव-उपपयःकारः, परमयशःकामः । अयसः कुम्भकपालम्-अयःकुम्भकपालम्, पयसः पात्रखण्ड-पयःपात्रखण्डम् ; अत्र हि निमित्तनिमित्तिनौ नैकसमासस्थौ, यदा त्वेवं समासोऽयसः कुम्भोऽयस्कुम्भस्तस्य कपालं तदा भवत्येवायस्कुम्भकपालमित्यादि । इह कृ-कम्योः10 केवलयोः समासो न भवतीति प्रत्ययान्तयोर्ग्रहणम् । अथ क्विबन्ता धातुत्वं न जहतीति क्विबन्तयोरेव कस्मात् न भवति ? “गतिकारकस्य” [३. २. ८५.] इत्यादिसूत्रे क्विग्रहणात्, नह्यन्यप्रत्ययान्तानां धातूत्तरपदानामग्रहणे क्विग्रहणमर्थवद् भवति । कमिग्रहणात्, कामयतेन भवति-पयः कामयते पयःकामा "शीलि-कामिभक्ष्याचरि" [५. ३. ८७. ] इत्यादिना णः 115 कमेस्त्वणिपयस्कामीति भवति, कथं पयस्कामा ? कमनं कामः, पयसि कामोऽस्या इति बहुव्रीहिणा भविष्यति । कमिग्रहणेनैव कंसे लब्धे पृथक् कंसग्रहणं ज्ञापकम्-अस्तीदमपि दर्शनम्- *उणादयोऽव्युत्पन्नानि नामानिक इति ।।५।।
न्या० स०--प्रतः कृ०। अयस्कार इति-अत्रायः करोतीति अर्थकथनमिदं.20 यतोऽयस् अम् कृ अरण इति समासः, ततोऽण्योगे कर्मनिमित्ता षष्ठी न भवति "न नाम्येकस्वरात्०" [३. २. ६.] इत्यत्र सूत्रेऽमोऽलुप्समासविधानात् । यशस्काम इतिगिङो विकल्पेन विधाना। कमिर्भवति, वाक्यं तु रिणङन्तस्यैव कार्य, यतोऽशविषये स विकल्पः शविषये तु नित्यमेव । अयस्कंस इत्यत्र अयसा मिश्रः कस इति वृत्तिपदेनैव क्रियायाः प्रख्यापनानास्त्यसामर्थ्य, विकारिविकारसंबन्धषष्ठीसमासो वा, पुल्लिङ्गाश्रये-25 णैव दृश्यत इति स्त्रियां नोदाह्रियते । “कमूङ" "मा-वा-वद्यमि०" [ उणा० ५६३. ] इति सः, कंस्ते इति वा अच कंसः। अयस्कुशेति-प्रयोविकारस्याविवक्षितत्वात् "भाजगोण." [२. ४. ३०. ] इति ङीर्न। अयःप्रधान यस्याः सा अय प्रधाना, सा चासौ कुशा चेति कर्मधारयः । अयस्कोति-प्रय इव करणौं यस्या इति बहुव्रीहौ