________________
[पा० ३. सू० २०-२२.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ३११
भवति । मातुःष्वसा, मातुःस्वसा; पितुःष्वसा, पितुःस्वसा;-"स्वसृपत्योर्वा" [३. २. ३८.] इति षष्ठ्या अलुप् । समास इत्येव-मातुः स्वसा, पितुः स्वसा ॥ १६ ॥
न्या० स०-अलुपि वा। पूर्वेण प्राप्ते विभाषेयमारभ्यते। मातुःश्वसेति"शषसे शषसं वा" [ १. ३. ६. ] इति पाक्षिके रस्य सत्वे चातूरूप्यम् ।। २. ३. १६ ।। 5
नि-नद्याः स्नाते. कौशले ॥ २. ३. २० ॥
निनदीशब्दाभ्यां परस्य स्नातेः संबन्धिनः सकारस्य समासे षो भवति, कौशले-नैपुण्ये गम्यमाने । निष्णः कटकरणे, निष्णातः कटकरणे; नदीष्णः प्रतरणे, नदीष्णातः प्रतरणे; कुशल इत्यर्थः । नद्याः स्नातस्य नेच्छन्त्येके । कौशल इति किम् ? निस्नातः, नदीस्नः, यः स्रोतसा ह्रियते ॥ २० ॥ 10
न्या० स०--नि-नद्याः । नदीष्णातः प्रतरणे इत्यादिष्ववयवार्थो व्युत्पत्त्यर्थमेवाश्रीयते, कृतषत्वेन त्वनेन क्रियासु तात्पर्येणानुष्ठातोच्यते-'नद्याः स्नातस्य' इत्यत्र । एक इति-चन्द्रप्रभृतयः, ते हि नद्याः स्नातस्य नेः स्नातस्य वेच्छन्ति ।। २. ३. २० ॥
प्रते. स्नातस्य सूत्रे ॥ २. ३. २१ ॥
प्रतेः परस्य स्नातसंबन्धिनः सकारस्य समासे षो भवति, सूत्रेऽभिधेये,15 विशेषानुपादानात् चोर्णादिसूत्रं व्याकरणादिसूत्रं च गृह्यते । प्रतिष्णातं सूत्रम्-ऊर्णादिसूत्रं क्षालनेन शुद्धम्, व्याकरणादिसूत्रं त्वतिव्याप्त्यादिदोषाभावेन शुद्धमित्यर्थः । सूत्र इति किम् ? प्रतिस्नातमन्यत् । प्रत्ययान्तोपादानं प्रत्ययान्तरनिवृत्त्यर्थम्-प्रतिस्नातृ सूत्रम्, प्रतिस्नायकं सूत्रम् ॥ २१ ॥
न्या० स०-प्रतेः स्ना०। प्रत्ययान्तरनिवृत्यर्थमिति-अन्यथा पूर्वसूत्रात् स्नाति-20 रनुवतिष्यत एव किं तदुपादानेन इत्यर्थः ।। २. ३. २१ ।।
स्नानस्य नाम्नि ॥ २. ३. २२ ॥
प्रतेः परस्य स्नानसंबन्धिनः सकारस्य समासे षो भवति, सूत्रविषये नाम्नि-समुदायश्चेत् सूत्रविषयं नाम भवतीत्यर्थः । प्रतिष्णानं सूत्रमित्यर्थः । नाम्नीति किम् ? प्रतिस्नानमन्यत् ।। २२ ।।
25