________________
[पा० २. सू० १२४.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ २६६
त्वं गुरुः, यूयं गुरवः; युवां गुरू, यूयं गुरवः; स कारुणिक उपाध्यायः, ते कारुणिका उपाध्यायाः; तौ कारुणिकावुपाध्यायौ, ते कारुणिका उपाध्यायाः ; एष मे पिता, एते मे पितरः; अयं तपस्वी, इमे तपस्विनः; गुरुशिष्यौ, गुरुशिष्याः; इह भवानाह, इह भवन्तस्त्वाहुः । आपः, दाराः, गृहाः, वर्षाः, पञ्चालाः जनपदः, गोदौ ग्रामः, खलतिकं वनानि, हरीतक्यः फलानि, 5 पञ्चालमथुरे, चञ्चाऽभिरूपो मनुष्य इति । सर्वलिङ्गसंख्ये वस्तुनि स्याद्वादमनुपतति मुख्योपचरितार्थाऽनुपातिनि च शब्दाऽऽत्मनि रूढितस्तत्तल्लिङ्गसंख्योपादानव्यवस्थाऽनुसर्त्तव्या ।। १२४ ।।
इत्याचार्यश्रीहेमचन्द्रविरचितायां श्रीसिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृत्तौ द्वितीयस्याऽध्यायस्य द्वितीयः पादः समाप्तः ।। २ । २ ।। 10 मूलार्कः श्रूयते शास्त्रे, सर्वकल्याणकारणम् ।
अधुना मूलराजस्तु, चित्रं लोकेषु गीयते ।। ६ ।।
,
न्या० स०-- गुरा० । कारुणिक इति - करुणा प्रयोजनमस्य करुणया वा चरति । अयं भवात् इहभवान् "भवत्वायुः [ ७. २. ε१. ] इत्यधिकारात् " त्रप् च' [ ७. २. ९२. ] इति त्रप्, “क्वकुत्र०" [ ७. २. ९३.] इति पश्चान्निपात्यते । इमे भवन्त: 15 इहभवन्तः । पञ्चालानां देशोऽपि पञ्चाला उपचारात् । गोदौ - हृदौ तत्समीपग्रामोऽपि गोदौ । खलतिकं वनानीति - खलतीति " कुशिक ०" [ उणा० ४५. ] इत्यादिना निपात्यत इत्याम्नायः, यद्वा खलान् तिक्नोति “मूलविभुजादयः " [ ५. १. ११४. ] कः, खलति - काख्यपर्वतसमीपवर्तिवनानामपि खलतिक इत्याख्या । हरति रोगानिति "हृरुहि० "
[ उणा० ७६.] इति ईतके - हरीतकी । पञ्चालाश्च मथुरा च पञ्चालमथुरे । चीयते 20 उपचोयते तृणैरिति चञ्चा । " चमेर्डोचडचौ" [ उणा० १२२. ] अभिमतं रूपं यस्य अभिमतं रूप्यते वा अभिरूपो मनुष्यश्वश्वव प्रकिञ्चित्करत्वात् अनुपततीति - अनुयाति अनुव्रजतीत्यर्थः । अनुसर्त्तव्येति - लिङ्गानि च संख्याश्च तास्ताश्च ताः लिङ्गसंख्याश्च तासामु - पादानं तस्य व्यवस्था साऽनुसर्तव्या । नन्वाप इत्येकस्यात्मापि जलकरिणकायां बहुवचनान्तोऽप्शब्दः प्रयुज्यते, दारशब्दश्चैकस्यामपि योषिति पुंल्लिङ्गो बहुवचनान्त:, 25 एवं गृह - शब्दोऽप्येकस्मिन्नपि गृहे, एवं वर्षा इत्येकस्मिन्नपि ऋतौ एवं पञ्चाला इति बहुवचनान्तेनैकोऽर्थ उच्यते जनपदः, तत्र बहुत्वाभावाद बहुवचनाऽयोगः, यद्यसौ बहुत्वसंख्यायोगी स्यात् तदैकवचनानुपपत्तिः जनपद इति एकत्वाभावात्, न कोऽर्थ एको भवति अनेक विरोधात् कथञ्चित् तथाभावे तूभयमप्युभयसंख्यायोगि स्यात्, न चैतदिष्यत इति, एवं गोदौ ग्राम इति द्वित्वैकत्वनियमाऽयोगः, खलतिकं वनानीत्येकवच - 3
"1
o