________________
२६८ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० २. सू० १२३-१२४.]
एकाऽनेकस्वभावस्याऽऽत्मनोऽनेकस्वभावविवक्षायां बहुवचनं सिद्धमेव, सविशेषणप्रतिषेधार्थं तु वचनम् ।। १२२ ।।
न्या० स०--अविशे०। न विशेषणमविशेषणम्, यद्वा विशेषणस्याभावः । अस्मदः इत्यत्र अनुकरणत्वादस्मच्छब्दकार्याप्रवृत्तिः। अविशेषरणे इत्यत्र प्रतिषधप्रधानः प्रसज्यो नञ्, यद्यत्र पर्युदासः स्याद्-विशेषणादन्यस्मिन्निति तदा विशेषणे न विधिर्नापि 5 प्रतिषेधो विशेषणे ततोऽन्यस्मिस्तु प्रयुज्यमाने विधिः, कोऽर्थः ? सत्यप्यस्मदर्थस्य विशेषणे ततोऽन्यस्मिन् प्रयुज्यमाने स्यादित्यर्थः, ततश्चाहं मैत्रो ब्रवोमीत्यत्रापि मिवन्तस्य विशेष्यस्य भावाद् मैत्र इति विशेषणे सत्यपि स्यादित्याह-न चेत् तस्येति । आवां ब्रव इति-पत्र द्वयोर्मध्ये एको ब्रते ततश्च कथमावां ब्रव इति, उच्यते-द्वयोरप्यभेदोपचारात् । विधेयत्वेनेति-अज्ञातज्ञापनोयत्वेनेत्यर्थः । एकानेकस्वभावस्येति-अयमर्थ:-एकोऽप्यात्मा10 यथैकत्वेनानुभूयते तथा द्रष्टा श्रोता मन्तेत्यादिनानात्वेनापि, नह्य कान्तेनैकत्वेनानेकत्वेन वेतरविनिमुक्तेन प्रतिपत्तिरस्ति, तत्र यथैकत्वेन द्वित्वेन च तस्मिन् विवक्षिते एकवचनं द्विवचनं च तथा बहुत्वविवक्षायां बहुवचनं सिद्धम् । नटानां नृत्तं "नटान्नृत्तं ज्यः" [ ६. ३. १६५. ] नाट्यम् ।। २. २. १२२. ।।
15
फल्गुनी-प्रोष्ठपदस्य भे॥ २. २. १२३ ॥
फल्गुनीशब्दस्य प्रोष्ठपदाशब्दस्य च भे-नक्षत्र वर्तमानस्य द्वावथौं बहुवद् वा भवतः । कदा पूर्वे फल्गुन्यौ, कदा पूर्वाः फल्गुन्यः; कदा पूर्वे प्रोष्ठपदे, कदा पूर्वाः प्रोष्ठपदाः; उदिते पूर्वे फल्गुन्यौ, उदिताः पूर्वाः फल्गुन्यः; उदिते पूर्वे प्रोष्ठपदे, उदिताः पूर्वाः प्रोष्ठपदाः । भ इति किम् ? फल्गुनीषु जाते फल्गुन्यौ माणविके। द्वावित्येव-तेनैकस्मिन् ज्योतिषि न20 भवति-दृश्यते फल्गुनी। एकवचनान्तः प्रयोग एव नास्तीत्यन्ये । फल्गुनीप्रोष्ठपदस्येति शब्दपरो निर्देशःकिम् ? तत्पर्यायस्य मा भूत्-प्रद्य पूर्वे. भद्रपदे ।। १२३ ।।
न्या० स०--फल्गु०। प्रोष्ठपदे इति-प्रवृद्धः ओष्ठो यस्य प्रोष्ठो गौस्तस्येव पादौ यस्या ययोर्वा "सुप्रात०" [ ७. ३. १२६. ] इति निपात्यते ।। २. २. १२३. ।। 25
गुरावेकश्च ॥ २. २. १२४ ॥ गुरौ-गौरवार्हेऽर्थे वर्तमानस्य शब्दस्य द्वावेकश्चाऽर्थो बहुवद् वा भवति ।