________________
[पा० २. सू० १२२.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ २६७
आख्या ग्रहणं किम् ? काश्यपप्रतिकृतिः काश्यपः भवत्ययं जातिशब्दो न त्वनेन जातिराख्यायते, किं तर्हि ? प्रतिकृतिः । एक इति किम् ? संपन्नौ व्रीहियवौ, " मगधेषु स्तनौ पीनौ, कलिङ्ग ेष्वक्षिणी शुभे" इत्यादावपि सव्येतरत्वलक्षणाऽवान्तरजातिद्वयोपाधियोगादेकत्वं नास्तीति बहुवद्भावो न भवति ; जातिमात्रविवक्षायां तु भवत्येव - मगधेषु स्तनाः पीनाः, स्तनः पीनः; 5 कलिङ्गष्वक्षीणि शुभानि प्रक्षि शुभमिति । असंख्य इति किम् ? एको व्रीहिः संपन्नः सुभिक्षं करोति, अत्र विशेषरणभूतसंख्याप्रयोगोऽस्तीति 'एके व्रीहयः संपन्नाः सुभिक्षं कुर्वन्ति' इति न भवति ।। १२१ ।।
.
न्या० स० -- जात्याख्यायां० । वैषयिकेऽधिकरणे सप्तमी निमित्तसप्तमी वा । जात्यर्थस्येति-न जातिशब्दस्य, तथा सति संपन्ना यवा इति यवशब्दादेव जातिशब्दाद 10 बहुवचनं स्यात्, न संपन्नशब्दात् तद्विशेषणभूतादिति, जात्यर्थस्य बहुवद्भावे संपन्नादिविशेषणान्यपि सामानाधिकरण्याद् यवादिशब्दोपात्ते जात्यर्थे वर्त्तन्त इति तेभ्योऽपि बहुत्वाश्रयं बहुवचनमुपपन्नमिति । चैत्रः, मैत्र इति - नेह जातिरभिधेया यदृच्छाशब्दत्वादनयो:, जातिर्हि सामान्यमुच्यते, यच्छबलशाबलेय-धवलघावलेयाद्यनेकव्यक्तिभेदेषु गौगौंरित्याद्यनुवृत्तप्रत्ययकारणमिति, यदि च बालकुमारादिभेदेऽनुवर्त्तमानमभिन्न रूपं जाति- 15 रुच्यते तथा सति नाजातिः कश्चिच्छब्दार्थोऽस्ति इति जातिग्रहणमनर्थकं स्यात्, तस्मात् सादृश्यसामान्यमिह जातिर्न स्वरूपसामान्यमिति । भवत्ययं जातिशब्द इति - " गोत्रं च चरणैः सह" इति लक्षणेन परमाख्याग्रहरणात् प्राधान्येन जातावभिधेयायां भवति, इह तु तद्विशिष्टा प्रतिकृतिराख्यायते इति ।
" मगधेषु स्तनौ पीनौ, कलिङ्गष्वक्षिरणी शुभे ।
बाहू प्रलम्बावङ्गेषु, वङ्ग ेषु चरणौ दृढौ" ।। २. २. १२१ ।।
20
अविशेषणे द्वौ चास्मदः ॥ २. २. १२२ ॥
अस्मदो द्वावेकश्चार्थो वा बहुवद् भवति, प्रविशेषणे - न चेत् तस्य विशेषणं प्रयुज्यते । आवां ब्रूवः, वयं ब्रूमः, अहं ब्रवीमि वयं ब्रूमः । अविशेषण इति किम् ? आवां गाग्यौं ब्रूवः, अहं पण्डितो ब्रवीमि श्रहं चैत्रो25 ब्रवीमि । कथं नाट्ये च दक्षा वयम् ?, “त्वं राजा वयमप्युपासितगुरुप्रज्ञाऽभिमानोन्नता: " ?, " सा बाला वयमप्रगल्भमनसः " ? इत्यादि ; दक्षत्वादीनां विधेयत्वेनाऽविशेषणत्वाद् भविष्यति यदनूद्यमानमवच्छेदकं तद्विशेषणमिति ।
,