________________
२६६ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० २. सू० १२१.]
एवं विप्रकृष्टेन, विप्रकृष्टात्, विप्रकृष्टे, विप्रकृष्टं ग्रामस्य ग्रामाद् वा तिष्ठति; अन्तिकार्थः-अन्तिकेन, अन्तिकात्, अन्तिके, अन्तिकं ग्रामस्य ग्रामाद् वा वसति; एवमभ्याशेन, अभ्याशात्, अभ्याशे, अभ्याशं ग्रामस्य ग्रामाद् वा। केचिदारादर्थैः पञ्चम्यन्तैर्युक्तात् पञ्चमी नेच्छन्ति, तेनदूराद् ग्रामस्य, अन्तिकाद् ग्रामस्येत्येव भवति, न तत् सर्वसंमतं पञ्चम्या 5 अपि दर्शनात्
"दूरादावसथान्मूत्रं, दूरात् पादावसेचनम् ।
दूराच्च भाव्यं दस्युभ्यो, दूराच्च कुपिताद् गुरोः” ॥ १ ॥ इति । असत्त्वेति किम् ? दूरः पन्थाः, अन्तिकः पन्थाः, दूराय पथे देहि, अन्तिकाय पथे देहि, दूरस्य पथः, अन्तिकस्य पथः स्वम् । कथं चिरं?, चिरेण?,10 चिराय ?, चिरात् ?, चिरस्येति ? ; विभक्तिप्रतिरूपका निपाता एते, यथापरस्परम्, परस्परेण, परस्परस्येत्यादयः ।। १२० ।।
न्या० स०--असत्त्वा०। असत्त्वे पारादर्थः, न विद्यते सत्त्वं यस्य स चाऽसौ आरादर्थश्च वा। गौणादिति निवृत्तमिति-विभक्तिसंबद्धत्वात् तन्निवृत्तावित्यर्थः, अत्र हि टादीनि वचनान्युपात्तानि, न तृतीयाद्या विभक्तयः । दूरेण ग्रामस्य ग्रामाद् वा इत्यादि-15 इदं तदिति सर्वनामप्रत्यवमर्शयोग्यार्थाभिधायकत्वेऽप्येतेषां धर्ममात्रेण प्रयोगादसत्त्वरूपार्थाभिधायकत्वं न विरुध्यते, तथाऽत्र ग्रामशब्दात् “पारादर्थैः" [ २. २. ७८. ] इति वा पञ्चम्यां पक्षे "शेषे" [२. २. ८१.] इति षष्ठी। अन्तिकाय पथे इति-अत्रोपपदविभक्त: कारकविभक्तिरिति पञ्चमी बाधित्वा चतुर्थी । न तत् सर्वसंमतमिति-यत: काशिकाकारोऽप्याह-पञ्चम्या अपि दर्शनात् लोकाचारग्रन्थे। कथमिति-बारादर्थत्वा-20 भावात् कथमेभ्यो द्वितीयाद्या इत्याशङ्कार्थः ।। २. २. १२० ॥
जात्याख्यायां नवैको संख्यो बहुवत् ॥ २. २. १२१ ॥
जातेरेकत्वादेकवचन एव प्राप्ते पक्षे बहुवचनार्थं बहुवद्भाव उच्यते, जातेराख्या-अभिधानं जात्याख्या; तस्यामेकोऽर्थो जातिलक्षणोऽसंख्य:-संख्यावाचिविशेषणरहितो बहुवद् वा भवति । संपन्नो यवः, संपन्ना यवाः; संपन्नो25 व्रीहिः, संपन्ना व्रीहयः; जात्यर्थस्य बहुवद्भावात् तद्विशेषणानामपि बहुवद्भावः; तथा चोभयवाचिभ्यो बहुवचनम् । जातिग्रहणं किम् ? चैत्रः, मैत्रः ।