________________
[पा० २. सू० ११६-१२०.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ २६५
दिति किम् ? अन्नस्य हेतुः । अन्ये तु हेत्वर्थशब्दयोगे नेच्छन्ति, हेतुशब्दप्रयोगे तु षष्ठीमेवेच्छन्ति । असर्वाद्यर्थमिदम् ।। ११८ ।।
न्या० स०-हेत्वर्थैः । प्रत्यासत्तेरिति हेत्वर्थस्तु व्यधिकरणाद् हेतुसंबन्धे षष्ठयेवास्ति, न तत्र तृतीयाद्या इति सामर्थ्या हेत्वथैः समानाधिकरणाद् हेतोरेव तृशोयाद्या भवन्तीति । ननूत्तरसूत्रेण सर्वा विभक्तय इति सर्व विभक्त्यन्तर्गतत्वात् 5 तृतोय'द्या अपि सिद्धा:, किमर्थ मद मत्याह-असर्वार्थमिति । हेतौ तृतोयायां "ऋणा
तो:" [२. २. ७६.]. "गुणादस्त्रियां नवा" [२. २.७७.] इति पञ्चम्यां प्राप्तायामयं विधिरारभ्यत इति ।। २. २. ११८ ।।
सर्वादः सर्गः ॥२. २. ११६ ॥
हेत्वथैर्युक्तात् प्रत्यासत्तेस्तत्समानाधिकरणात् सर्वादेगौंणानाम्नः सर्वा। विभक्तयो भवन्ति । को हेतुर्वसति चैत्रः, कं हेतुं वसति, केन हेतुना, कस्मै हेतवे, कस्माद् हेतोः, कस्य हेतोः, कस्मिन् हेतौ; एवं यो हेतुः, यं हेतुम्, येन हेतुना, यस्मै हेतवे, यस्माद् हेतोः, यस्य हेतोः, यस्मिन् हेतौ; स हेतुः, तं हेतुम्, तेन हेतुना, तस्मै हेतवे, तस्माद् हेतोः, तस्य हेतोः, तस्मिन् हेतौ; सर्वो हेतुः, सर्वं हेतुम् ; भवान् हेतुः, भवन्तं हेतुम्, भवता हेतुना; उभौ15 हेतू, उभाभ्यां हेतुभ्यामित्यादि ; एवं किं कारणं ?, किं निमित्तं ?, किं प्रयोजनमित्यादि । तत्समानाधिकरणादित्येव-कस्य हेतुः । प्रथमां नेच्छन्त्येके, द्वितीयामपरे ।। ११६ ।।
न्या० स०--सर्वादेः०। प्रियाः सर्वे यस्येति बहवीहौ हेत्वर्थयोगेऽपि न सर्वा विभक्तयः अन्यपदार्थप्रधानत्वेन सर्वादेगौणत्वात्, गौणे मुख्य च मुख्य कार्यसंप्रत्यय:820 कर्मधारये परमसर्वं हेतु वसतीत्यादि तु भवति, *ग्रहणवता नाम्ना०* इति तु नोपतिष्ठतेऽत्र ।। २. २. ११६ ।।
असत्त्वारादर्थाटासियम् ॥ २. २. १२० ॥
सत्त्वं-द्रव्यं, ततोऽन्यदसत्त्वम्, पाराद् दूराऽन्तिकयोः, तन्त्रेणोभयोग्रहणम् ; असत्त्ववाचिनो दूरादिन्तिकार्थाच्च 'टा ङसि डि अम्' इत्येते25 प्रत्यया भवन्ति, गौणादिति निवृत्तम् । दूरेण ग्रामस्य ग्रामाद् वा, दूराद् ग्रामस्य ग्रामाद् वा, दूरे ग्रामस्य ग्रामाद् वा, दूरं ग्रामस्य ग्रामाद् वा वसति;