________________
२६४ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० २. सू० ११७-११८.]
स्वामीत्यत्र “स्वामीश्वरा०" [२. २. ६८. ] इत्यादिना सप्तमी न भवति ।। ११६ ।।
न्या० स०--तुल्यार्थैः । न तुल्यार्था इति-तुल्यादयो हि धर्मिवाचकाः, तुलोपमादयस्तु तुल्यत्वादिधर्मवचना इति न तुल्यार्थाः। गौणाधिकाराच्चेति-प्रधाना गोशब्दान्न भवतीत्यर्थः, तुल्यार्थतापि नास्तीति चकारेण परिहारान्तरं समुच्चीयत इति 5 शेषः । नन्वनन्तरात् पूर्वसूत्रात् तृतीयाऽनुवर्तते, ततः "तुल्यार्थैर्वा" इति तद्विकल्पे कृते "शे:" [ २. २.८१.] इत्यनेन पक्षे शेषलक्षणा षष्ठी सिद्धव, किमर्थं तद्विधानमित्याहतृतोयेत्यादि। गवां तुल्यः स्वामीति-गवां तुल्य इत्यर्थः, यद्यस्मत्स्वामी गवां तुल्य इत्यर्थो विवक्ष्यते तदा गोशब्दस्य स्वामिशब्देनायोगात् सप्तमीप्राप्तिरेव नास्तीति । गवय इति
"की ग् गवय इत्येवं पृष्टो नागरिकर्यदा । वदत्यारण्यको वार्ता यथा गौर्गवयस्तथा ।। २. २. ११६ ।।"
10
द्वितीया-षष्ठयावेनेनाउनञ्चेः ॥ २. २. ११७ ॥
एनप्रत्ययान्तेन युक्ताद् गौणान्नाम्नो द्वितीयाषष्ठ्यौ विभक्ती भवतः, न चेत् सोऽञ्चेः परो विहितो भवति । पूर्वेण ग्रामम्, पूर्वेण ग्रामस्य ; अपरेण ग्रामम्, अपरेण ग्रामस्य; दक्षिणेन विजयाधम्, दक्षिणेन विजयाधस्य ; 15 उत्तरेण हिमवन्तम्, उत्तरेण हिमवतः । अनञ्चेरिति किम् ? प्राग् ग्रामात्, प्रत्यग् ग्रामात्; उदग् ग्रामात् ।। ११७ ।।
न्या० स०--द्वितीया । पूर्वेणेति-पूर्वस्यामदूरवर्तिन्यां दिशि "अदूरे एनः" [७. २. १२२.] ॥ २. २. ११७ ॥ हेत्वर्थ स्तुतीयाद्याः ॥ २. २. ११८ ॥
20 हेतुनिमित्त कारणमिति पर्यायाः, एतदर्थैः शब्दैर्युक्तात् प्रत्यासत्तस्तैरेव समानाधिकरणाद् गौणान्नाम्नस्तृतीयाद्यास्तृतीया-चतुर्थी-पञ्चमी-षष्ठीसप्तम्यो भवन्ति । धनेन हेतुना वसति, धनाय हेतवे वसति, धनाद् हेतोर्वसति, धनस्य हेतोर्वसति, धने हेतौ वसति; एवं-धनेन निमित्तेन, धनेन कारणेन, धनेनाऽपदेशेन; धनेन प्रयोजनेनेत्यादयोऽपि । तत्सामानाधिक-25 रण्याच्च हेत्वर्थेभ्योऽपि ता एव भवन्ति । प्रत्यासत्तेस्तैरेव समानाधिकरणा