________________
[पा० २. सू० ११४-११६.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ २६३
शब्दावन्याथौं तदा प्रभृत्यादिसूत्रेण पञ्चमी सिद्धैव तृतीयैवाऽनेन विधीयते, यदा त्वसहायाौँ तदा पञ्चमीविधानार्थमपोदम् । अन्ये तु द्वितीयामपीच्छन्ति ।। ११३ ।।
ऋते दिवतीया च ॥ २. २. ११४ ॥
ऋते इत्येतदव्ययं वर्जनार्थम्, तेन युक्ताद् गौणान्नाम्नो द्वितीया पञ्चमी 5 च भवति । चित्रं यथाश्रयमृते, नह्यङ्ग विक्रियते रागमृते, ऋते धर्मात् कुतः सुखम् । द्वितीयां नेच्छन्त्येके ।। ११४ ।।
न्या० स०--ऋते द्वि० । नाङ्ग विनियत इति-विषयादिभिः कर्तृभिरित्यर्थः, विक्रियत इति कर्मण्ययं प्रयोगः, कर्मकर्तरि तु "भूषार्थ." [३. ४. ६३.] इति किरादित्वात् क्यप्रतिषेधः स्यात् ।। २. २. ११४ ।।
10
विना ते तृतीया च ॥ २. २. ११५ ॥
विनाशब्देन युक्ताद् गौणान्नाम्नस्ते-द्वितीयापञ्चम्यौ तृतीया च भवति । विना वातम्, विना वर्षम्, न विना शब्दभावनाम्, याञ्चां विना विद्धि, विना वातात्, विना वातेन । द्वितीयां नेच्छन्त्यन्ये ।। ११५ ।। न्या० स०--विना ते० । विनेति तृतीयान्तमव्ययम् ।
"प्राद्यः करणविन्यासः, प्राणस्योर्ध्व समीरणम् । स्थानानामाभिघातश्च, न विना शब्दभावना " ।। २. २. ११५ ।।
15
तुल्याथै स्तुतीया-षष्ठयौ । २. २. ११६ ॥
तुल्यार्थैर्युक्ताद् गौणान्नाम्नस्तृतीया-षष्ठ्यौ भवतः । मात्रा तुल्यः, मातुस्तुल्यः; पित्रा समानः, पितुः समानः; गुरुणा समः, गुरोः समः; चैत्रेण 20 सदृशः, चैत्रस्य सदृशः । अर्थग्रहणं पर्यायार्थम् । उपमा नास्ति कृष्णस्य, तुला नास्ति सनत्कुमारस्येत्यादावुपमादयो न तुल्यार्था इति न भवति । गौणाधिकाराच्च गौरिव गवयः, यथा गौस्तथा गवय इत्यादौ न भवति। तृतीयामविकल्प्य षष्ठीविधानं सप्तमीबाधनार्थम्, तेन गवां तुल्यः स्वामी, गोभिस्तुल्यः