________________
३०० ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० २. सू० १२४.]
नान्तेन बह वभिधानमनुपपन्नम्, तथा हरीतक्यः फलानोति स्त्रीनपुसकयोलिङ्गयोरयोगः, तथा पञ्चालमथुरे इत्यनुत्तरपदस्य देशवृत्तेर्बहुविषयस्य बहुवभावप्रति धानुपपत्तिः, एवं चञ्चाभिरूप इत्यादावपि चञ्चादिलिङ्गता स्यादित्यत्र यत्नः कर्त्तव्यः, येन सर्वं समञ्जसं स्यादित्याशङ्कायामाह- सर्वलिङ्गसंख्ये वस्तुनीत्यादिसर्वाणि- त्रीण्यपि लिङ्गानि, सर्वाश्चएकत्व-द्वित्व-बहुत्वलक्षणाः संख्या एकस्मिन्न व वस्तुनि सन्ति, तथा हि- वस्त्वर्थो मात्रेति 5 शब्दाः सर्वत्र वस्तुतत्त्वे- घटवस्तु घटार्थो घटमात्रेति प्रवर्त्तन्ते इति लिङ्गानि दृश्यन्ते ; गुणगुरिण-द्रव्यपर्याया-ऽवयवावयविरूपे वस्तुनि घट इत्यभेदविवक्षायामेकत्वसंख्या, गुणगुणिनौ द्रव्य-पर्यायौ अवयवा-ऽवयविनौ घटौ नैकैकमात्र इति द्वित्वसंख्या, गुण-पर्यायाऽवयवानां बहत्वात तद्ध दविवक्षायां गणाश्च गुणी च गुणगणिनो घटा इति बहत्वसंख्या: न चैतदेकस्मिन् वस्तुनि स्याद्वादानुपातिनि विरुद्धं स्यात्, यतः कथञ्चिदिति वाद: स्याहादः10 तथाहि-स एवायं मैत्र इत्याजन्ममरणम विच्छेद: प्रतीयते, तन्न भेदमात्रं वस्तु, बालोऽयं न युवा, युवाऽयं न बालः, सुप्ताऽयं न उत्थितः, उत्थितोऽयं न सुप्त इति विच्छेदश्च प्रतीयते तन्नाभेदमात्रम्, न च तयोर्भेद एव 'मैत्रो बालो मैत्रो युवा' इत्येकत्वेन प्रतिभासनात्, गौरश्चेतिवद् भेदप्रतिभासाभावात्, एकान्तेन भेदेऽन्यतरविलोपः, तथा च भेदाभेदप्रतिभासायोगः, न चान्यतरस्य मिथ्यात्वमितराविशेषा, तस्मादन्तरालावस्थं वस्तु, तदेतत्।5 स्याद्वादानुपातीति नापानेकरूपता विरुध्यते, तदेवं क्रमाक्रमभाव्यनेकभेदात्मके वस्तुनि सर्वमुपपद्यते, तत्राप इति नैकस्यां व्यक्तौ प्रवर्तते, अपि तु बहुव्यक्तिविषय एव ।
एवं दारादयोऽपि पुल्लिङ्गाः, यथा द्वौ त्रय इति भेदविषया एव नैकैक विषया एव, एकद्रव्यविषयत्वेऽपि गुणपर्यायावयवभेदोपादानाद्वस्तुसामथ्योद् बहुत्वोपपत्तिः । एवं पञ्चाला इति वस्तुशक्तिस्वाभाव्यादवयवद्वारेण प्रवर्तते, जनपद इति समुदायद्वारेण ।20 एवं गोदौ ग्राम इत्यादावप्येकानेकसंख्योपपत्तिः । हरीतक्य: फलानीति लिङ्गभेदश्च सर्वलिङ्गत्वाद् वस्तुनः । पञ्चालमथुरे इति पञ्चालादोनां बहुत्वविषयाणां समासे उत्तरपदादन्यत्र समुदायाभिधानं न त्ववयवाभिधानमिति बहुत्वाभावः, नियतविषयाश्च शब्दशक्तयो भवन्ति, यथा-राज्ञ पुरुष इति वाक्ये राजशब्दो विशेषणादियोगिनमर्थमाचष्टे, वृत्तौ तु तद्विलक्षणं राजपुरुष इति । चञ्चाभिरूपो मनुष्य इति सा श्यान्मनुष्यवृत्तेश्च तद्रूपं25 यन्न विशेषणयोगि। पञ्चालादिशब्दानां च क्षत्रियाद्यथवृत्तीनामपि सोऽयमित्याभसम्बन्धादुपचाराज्जनपदाद्यर्थेऽपि वृत्तिरित्युक्त -मुख्योपचरितार्थानुपातिनीत्यादि । अत्र च रूढिः प्रमाणं, यतो वृद्धव्यवहाराच्छब्दार्थव्युत्पत्तिरित्युच्यते-रूढित इति-रूढिः शिष्टव्यवहारे प्रसिद्धिः । तत्तल्लिङ्गसंख्योपादानव्यवस्थेति-सा सा येदानी प्रदर्शितेति ।। २. २. १२४ ॥
॥द्वितीयस्याध्यायस्य द्वितीयः पादः॥
30