________________
२६० ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० २. सू० १०६.]
सप्तमी चाऽविभागे निर्धारणे ॥ २. २. १०६ ॥
जाति-गुण-क्रियादिभिः समुदायादेकदेशस्य बुद्धया पृथक्करणं निर्धारणम्, तस्मिन् गम्यमाने गौणान्नाम्न: षष्ठी सप्तमी च भवति; अविभागे-निर्धार्यमाणस्यैकदेशस्य समुदायेन सह कथञ्चिदैक्ये शब्दाद् गम्यमाने। क्षत्रियः पुरुषाणां पुरुषेषु वा शूरतमः, शालयः शूकधान्यानां 5 शूकधान्येषु पथ्यतमाः, कृष्णा गवां गोषु वा संपन्नक्षीरतमा, धावन्तो गच्छतां गच्छत्सु वा शोघ्रतमाः, युधिष्ठिरः श्रेष्ठतमः कुरूणां कुरुषु वा। अविभाग इति किम् ? माथुराः पाटलिपुत्रकेभ्य आढयतराः, पञ्चालाः कुरुभ्यः संपन्नतराः, मैत्रश्च त्रात् पटुः, अयमस्मादधिकः; अत्र हि शब्दात् भेद एव प्रतीयते, न तु कथञ्चिदैक्यमिति न भवति । पञ्चमीबाधनार्थं वचनम्,10 अन्ये तु पञ्चमीमपीच्छन्ति-गोभ्यः कृष्णा संपन्नक्षीरतमा ।। १०६ ।।
न्या० स०--सप्तमी०। क्षतात् त्रायते "स्था-पा०" [ ५. १. १४२. ] इति कः, पृषोदरादित्वादलोपे क्षत्र, तस्यापत्य "क्षत्रादियः" [६. १. ६३.], क्षत्रियः पुरुषारणामित्य दिषु क्षत्रियत्व-शालित्वजात्या कृष्णत्वगुणेन धावनक्रियया, आदिशब्दा. युधिष्ठिरप्रभृतिसंज्ञया च निर्धारणम् । ननु निर्धार्यमारणस्यावयवस्य समुदायाभ्यन्तरत्वात् ततश्च15 समुदायस्याऽधिकरणविवक्ष यां वृक्षे शाखेतिवत् स म्याः सिद्धत्वात् संबन्धविवक्षायां त्ववयवस्य वृक्षस्य शाखेतिवत् षष्ठया अपि सिद्धत्वात् किमनेनेति, नैवम्-विभागे प्रतिषेधार्थत्वादस्य सर्वत्रैव निर्धारणस्य विभागरूपत्वेनाऽविभागपूर्वकत्वादविभागग्रहणस्य निरर्थकत्वादविभागग्रहणसामर्थ्यादवधारणमाश्रीयते-अविभागो यत्र शब्दत एव प्रतीयते तत्र निर्धारणे सप्तमी-षष्ठ्याविति, यथा क्षत्रियः पुरुषाणां पुरुषेष्वित्यत्र निर्धार्यमारणस्य 0 क्षत्रियस्य. पुरुषत्वेनाऽविभागप्रतोतिः; तेन माथुरा: पाटलिपुत्रकेभ्य आढयतरा इत्यत्र न भवति, नह्यत्र केनचित् प्रकारेण माथुराणां पाटलिपुत्रकेष्वविभाग: शब्दतः प्रतीयते, नहि पाटलिपुत्रका माथुरा नाप्याढयतरा इति वाक्याद् भेद एव प्रतीयते इत्याह-शब्दाद् गम्यमाने इति । गवां कृष्णेत्यादौ विभज्यमाना गौर्गोत्वेन समुदायादविभक्ता, कार्येन तु विभक्ता, तस्माद् विभज्यमानस्यैकदेशस्य विभागाश्रयस्य च समुदायस्य यत्र विभागा-25 विभागौ स एवानयोविषयः, यत्र तु तयोविभाग एव, न कथञ्चिदैक्यं तत्र पञ्चम्येव भवति, अत एवाह-पञ्चमोबाधनार्थमिति-अयमर्थ:-निर्धारणस्य विभागरूपत्वाद् यस्य हि यतो विभागस्तस्य तदपेक्षयाऽवधिरूपत्वाद् अपादानत्वात् “पञ्चम्यपादाने" [२. २. ६६. ] इति पञ्चम्यां प्रप्तायां यत्र विभागोऽपि तत्र तदपवादो योग इत्यर्थः, यद्येवं सर्वथा समुदायभावानापन्ने निर्धारणमेव न युज्यते, समुदायाद्धि एकदेशस्य पृथक्करणं निर्धारणमित्युक्त-30