________________
4
[ पा० २. सू० ११०.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ २६१
त्वात्, सत्यमेतत्-बुद्धया हि केनचिद् धर्मेण कल्पितेन माथुराः पाटलिपुत्रकाच समुदायभावमापद्यन्ते इति सिध्यति निर्धारणमित्यदोषः ।। २. २. १०६ ।।
क्रियामध्येsध्वकाले पञ्चमी च ॥ २. २. ११० ।।
क्रिययोर्मध्ये योऽध्वा कालश्च तस्मिन् वर्तमानाद् गौरणान्नाम्नः पञ्चमी, चकारात् सप्तमी च भवति । इहस्थोऽयमिष्वासः क्रोशाल्लक्ष्यं विध्यति, 5 क्रोशे वा लक्ष्यं विध्यति ; इह धानुष्काऽवस्थानमिषमोक्षो वैका क्रिया, लक्ष्यव्यश्व द्वितीया, तन्मध्ये कोशोऽध्वा; अद्य भुक्त्वा मुनिद्वर्य हात् भोक्ता, द्वय वा भोक्ता ; अत्र द्वयोर्भुक्तिक्रिययोर्मध्ये द्वयहः कालः । ननु च 'क्रोशे स्थितं लक्ष्यं विध्यति' द्वयहे पूर्णे भुङ्क्ते, इत्यधिकरण एव सप्तमी; 'क्रोशात् निःसृत्य स्थितं लक्ष्यं विध्यति, द्वयहमतिक्रम्याऽनु भुङ्क्ते' इत्यपादाने 10 “गम्ययपः कर्माऽऽधारे” [२. २. ७४.] इति पञ्चमी सिद्धैव, सत्यम् - यदा त्वस्यैव क्रियाकारकसंबन्धस्य फलभूता शेषसंबन्धलक्षणोत्तरावस्था विवक्ष्यते, यथा - द्विरह नो भुङ्क्ते, योजनस्य शृणोतीति, तदाऽपि क्रियामध्ये षष्ठी मा भूदिति वचनम् ।। ११० ।।
न्या० स०-- क्रियामध्ये० । इहस्थोऽयमिति - नन्विष्वास इति धनुरुच्यते, यथा-15 अङ्गराजो महेष्वास इति, महान् इष्वासो यस्येति व्युत्पत्तेः, धनुश्च व्यधने करणं, कर्ता तु मैत्र दि:, तत् कथमुक्तम् - इष्वासो विध्यतीति, उच्यते - इष्वास इति क्रियाशब्दोऽयमिति यः विदिषूनस्यति - क्षिपति स मैत्रादिरप्युच्यते; यद्वा रूढिशब्दत्वेऽपि करणस्य स्वातन्त्र्यविवक्षायामिष्वासो विध्यतीति उपपद्यत एव यथा स्थालीकरणस्य कर्तृ विवक्षायां स्थाली पचतीत्युच्यते । भुक्त्वेति-नन्विहस्थोऽयमिष्वास इत्यादि क्रियाभेदाद् युक्तमिदमुदा-20 हरण, इदं त्वयुक्तमद्य मुक्त्वा मुनिद्वर्यहाद् भोक्त ेति भुजिक्रियाया एकत्वात्, सत्यम्भुजिक्रियाया एकस्या अपि कालभेदाद् भेदस्य सिद्धत्वादाधारोऽपि तस्या भिद्यते । अधिकरण एव सप्तमीति-क्रियामध्यव्यव स्थितस्याध्वनोऽधिकरणत्वात् सप्तमी सिद्धा, कोशैकदेशस्याधिकरणत्वात् क्रोशेऽप्यधिकरणत्वस्य वक्त ु ं शक्यत्वात्; एवं कालादपि द्वयहे पूर्णे इत्यत्र पूर्णद्वयहस्य यदुपश्लिष्टमहस्तत्र भोक्त त्यर्थावसायादौपश्लेषिकी सप्तमी 25 सिद्धा, पञ्चमी त्वध्वनोऽपादानत्वात् क्रोशान्निर्गच्छद्भिः शरैर्लक्ष्यं विध्यतीत्यर्थावगमात्; कालात् तु "गम्ययपः ० [ २. २.७४ ] इति द्वयहमतिक्रम्य भोक्त ेत्यर्थप्रतीतेः, किमर्थोऽयं योग इत्याक्षेपार्थ: यथा च शरनिर्गमनस्य धनुरपादानं तथा कोशोऽपि तस्मादपि हि ते निर्गच्छन्ति यद्वा क्रोशस्थं धनुरपि क्रोशेनाभिधीयते उपचारात्, मञ्चा: क्रोशन्तीतिवत् । अस्यैवेति- अपादानस्याधारस्य वेत्यर्थः । फलभूतेति - क्रियाकारकसंबन्धो 30
"