________________
[पा० २. सू० १०८.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ २८६
इति किम् ? गतशब्दप्रयोगे मा भूत्-गवीधुमतः सांकाश्यं चतुर्षु योजनेषु गतेषु भवति, अत्रैकार्थ्यं न भवति ; सप्तमी तु पूर्वेण नित्यं भवति । अध्वन इति किम् ? कार्तिक्या आग्रहायणी मासे, अत्राऽप्यैकार्थ्याभावे पूर्वेण नित्यं सप्तमी। अन्तेनेति किम् ? अद्य नश्चतुर्पु गव्यूतेषु भोजनम्, भोजनं हि भोक्तृधर्मो नाऽध्वनोऽन्त इति पूर्ववत् सप्तम्येव । नन्वन्तेन सहाऽध्वनोऽभे- 5 दोपचारात् सिद्धमेवैकार्थ्यं किमनेन ? सत्यम्-कालेऽप्येवं मा भूदिति वचनम् ।। १०७ ।।
न्या० स०--गते गम्ये० । कुतश्चिदवधेः गवीधुमत इत्यादिलक्षणात्, विवक्षितस्य इयत्तापरिच्छेदायोपात्तस्याध्वनोऽवसानं-सांकाश्याद्यन्तः । यद्भाव इति-यस्याध्वानश्चतुर्योजनरूपस्य भावेन गमनरूपेणाऽपरो भावः सांकाश्यभवनरूपो लक्ष्यते तस्येत्यर्थः ।10 ऐकार्यमिति-एकोऽर्थो द्रव्यमनेकभेदाऽधिष्ठानं यस्य स एकार्थस्तस्य भाव ऐकार्थ्यम् । तद्विभक्तिरिति-अन्यथैकविभक्तिमन्तरेण सामानाधिकरण्यं न घटेत । गवामी:-श्रीः तां दधाति “पृ. काहृषि०" [ उणा० ७२६. ] इति किदुः, सोऽत्राऽस्ति मतुः, अव्युत्पन्नो वा गवीधुमच्छब्दः। अद्य नश्चतुषु गव्यूतेष्विति-गव्यूतिरत्रास्ति विषयतयाऽवयवितया वा "अभ्रादिभ्यः" [७. २. ४६.] अः, गव्यूतं क्रोश एकः । नन्वन्तेनेति-चतुर्दा योजनेषु15 यत् सांकाश्यं तच्चत्वारि योजनानि ।। २. २. १०७ ।।
षष्ठी वानादरे ॥२. २. १०८ ॥
यद्भावो भावलक्षणं तस्मिन् भाववति वर्तमानाद् गौणान्नाम्नोऽनादरे गम्यमाने षष्ठी वा भवति, पक्षे पूर्वेण सप्तमी। रुदतो लोकस्य प्रावाजीत्, रुदति लोके प्रावाजीत् ; क्रोशतो बन्धुवर्गस्य प्रावाजीत्, क्रोशति बन्धुवर्गे 20 प्रावाजीत् ; रुदन्तं क्रोशन्तं वाऽनादृत्य प्राव्राजीदित्यर्थः ॥ १०८ ।।
न्या० स०-षष्ठी वा०
प्तमीति-वाशब्दमन्तरेणानादरे पष्ठयाsपवादतया सप्तमी बाध्येत । ननु “यद्भाव:०" [२. २. १०६.] इति भावलक्षणे सामान्ये सप्तमी, तत्रानादर इति विशेषे षष्ठी, सप्तम्यामनादरप्रतीतिरर्थप्रकरणादेरित्यर्थभेदान्न बाध्य-बाधकभावोऽस्तीति किं पक्षे सप्तम्यर्थेन वाशब्देनेति, उच्यते-यथाऽनादरादन्यत्र25 साम्यतः सप्तम्यस्ति, एवं "शेषे" [२. २. ८१.] इत्यनेन षष्ठ्यपि, तत्रोभयत्रापि प्रव्रजन् रुदतापि लोकेन निवर्त्यमानस्तद्रोदनमनादृत्य प्रावाजीदित्यनादरः प्रकरणादेः प्रतीयत इति सामान्येऽर्थे षष्ठी सप्तमी बाधेतेति पक्षे तदर्थं वावचनम् ।। २. २. १०८ ।।