________________
२८८ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० २. सू० १०७.]
प्रसिद्धन गवां दोहेन भावेनाऽन्यस्य गमनमप्रसिद्धं लक्ष्यते; एवं-देवार्चनायां क्रियमाणायां गतः कृतायामागतः । गम्यमानेनाऽपि भावेन भावलक्षणे भवति-पाम्रषु कलायमात्रेषु गतः, पक्वेषु पागतः; अत्र जातेष्विति गम्यते । गम्यमानमपि हि विभक्त निमित्तं भवति, यथा-वृक्षे शाखा, ग्रामे चैत्रः; अत्र भवति, वसति चेत्याधारनिमित्त गम्यते । यत्र क्रियार्हाणां कारकत्वं 5 तद्विपर्ययो वा, यथा-ऋद्धेषु भुजानेषु दरिद्रा आसते, ऋद्धेष्वासीनेषु दरिद्रा भुञ्जते, यत्र च क्रियानर्हाणामकारकत्वं तद्विपर्ययो वा, यथा-दरिद्रष्वासीनेषु ऋद्धा भुञ्जते, दरिद्रषु भुजानेषु ऋद्धा पासते; तत्राऽपि भावो भावस्य लक्षणं भवतीत्यनेनैव सप्तमी । यद्ग्रहणं प्रकृत्यर्थम् । भाव इति किम् ? यो जटाभिस्तस्य भोजनम् । भावलक्षणमिति किम् ? यस्य भोजनं स मैत्रः । 10 तृतीयाऽपवादो योगः ।। १०६ ।।
न्या० स०--यद्भावो० । कलायमात्रेष्विति-कलायो मालवकप्रसिद्धोऽधमधान्यविशेषो मानमेषां स्यात् "मात्रट" [ ७. १. १४५. ] इत्यनेन मात्रट् । यत्रेति-अयमर्थ:यत्र ऋद्धानां दरिद्राणां च भुजिक्रियामासनक्रियां च प्रति यथासंख्यं कारकत्वं, कोऽर्थः ? तां प्रति कतत्वं, तद्विपर्ययोऽकारकत्वं वा, तत्रापि भावो भावस्य लक्षणमित्यनेनैव सप्तमी 15 सिद्धेति, यदन्यैः- "क्रियाणां कारकत्वं तद्विपर्ययो वा" 'यत्र क्रियानर्हाणामकारकत्वं तद्विपर्ययो वा” इति सप्तमीविधायकं सूत्रद्वयं कृतं तन्नारम्भरणोयम्, यस्य भावो भावस्य लक्षणं ततो भाववतः सप्तमीष्यते, यद्ग्रहणमन्तरेण चैतन्न लभ्यते इत्याह-यद्ग्रहणं प्रकृत्यर्थमिति । यो जटाभिरुपलक्षितस्तस्य भोजनमित्यत्र न भावो भावस्य लक्षणमपि तु द्रव्यम् । तृतीयापवाद इति-इत्थंभूतलक्षणेऽर्थे ।। २. २. १०६ ।।
20 गते गम्ये वनोन्तेनैकार्य वा ॥ २. २. १०७ ॥
कुतश्चिदवधेविवक्षितस्याऽध्वनोऽवसानमन्तः, यद्भावो भावलक्षणं तस्याऽध्वनोऽध्ववाचिशब्दस्याऽध्वन एवाऽन्तेनाऽन्तवाचिना सहैकार्थ्यं सामानाधिकरण्यं वा भवति, तद्विभक्तिस्तस्माद् भवतीत्यर्थः; गते गम्येगतशब्देऽप्रयुज्यमाने इत्यर्थः । गवीधुमतः सांकाश्यं चत्वारि योजनानि, चतुर्घ25 योजनेषु गतेषु भवतीत्यर्थः; एवं लोकमध्याल्लोकान्तमुपर्यधश्च सप्त रज्जूनामनन्ति, पक्षे-पूर्वेण सप्तमी; गवीधुमतः सांकाश्यं चतुर्पु योजनेषु, गतेष्विति गम्यते । गत इति किम् ? दग्धेषु लुप्तेष्विति वा प्रतीतौ मा भूत् । गम्य