________________
[पा० २. सू० १०५-१०६.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ २८७
.
___15
सप्तमी भवति, अधिः स्वस्वामिसंबन्धं द्योतयति, तत्र स्व-स्वामिवाचिनोर्यद् गौणत्वेन विवक्ष्यते ततो भवति । स्वे-अधि मगधेषु श्रेणिकः; अध्यवन्तिषु प्रद्योतः; ईशे-अधि श्रेणिके मगधाः, अधि प्रद्योतेऽवन्तयः; षष्ठीबाधनार्थों योगः ।। १०४ ।।
न्या० स--स्वेशे०। ईशितव्य इति यथेष्ट विनियोज्ये। अधेरुपरिभाव- 5 स्वस्वामिसंबन्धयोोतकत्वेऽपि 'स्वेशे' इति वचनादत्र स्वस्वामिसंबन्धद्योती गृह्यते । संबन्धस्योभयनिष्ठत्वे युगपदुभयत्र स मी स्यादित्याह-यद्गौणत्वेनेति । अधि मगधेष्वित्यादिषु "विभक्तिसमीप०" [ ३. १. ३६. ] इति नाव्ययीभावो विभक्त्यर्थत्वाभावात्, यतो विभक्तिविभक्त्यर्थः कारकम्, अत्र च षष्ठ्यपवादः सप्तमी इति न विभक्त्यर्थत्वम् । यदि च समासः स्यात् तदा वाक्यं निवर्तत नित्यसमासत्वात् 'अधिस्त्रि' इत्यादिवत् ; 10 यदा तू सप्तम्यर्थ एवाधिशब्दस्तदात्राप्यव्ययीभाव एव-अध्यवन्ति प्रद्योत इति । नन्वत्र क्रमेण परस्परमाधाराधेयभावविवक्षायां पर्यायेण “सप्तम्यधिकरणे' [ २. २. ६५. ] एव स मी भविष्यति, किमननेति, सत्यम्-संबन्धविवक्षया षष्ठ्यपि स्यादित्याह-षष्ठीबाधनार्थों योग इति ।। २. २. १०४ ।।
उपेनाधिकिनि ॥२. २. १०५॥
उपेन युक्तादधिकिनि वर्तमानाद् गौणान्नाम्नः सप्तमी भवति, उपेत्यधिकाऽधिकिसंबन्धं द्योतयति । उप खार्यां द्रोणः, द्रोणोऽधिक: खार्या इत्यर्थः । उप निष्के कार्षापणः, कार्षापणोऽधिको निष्कस्येत्यर्थः । उपेनेति किम् ? खार्या उपरि द्रोणः । अधिकिनीति किम् ? अधिके मा भूत्, तेनोप द्रोणे खारीति न भवति ।। १०५ ।।
न्या० स०-उपेना० । अत्रापि यदधिकं तदधिकिन्यारूढमित्याधारविवक्षायां सप्तमो सिद्धैव, परं पूर्ववद् विभक्त्यन्तरबाधनार्थम् । अधिको निष्कस्येति-साधु त्यो राज्ञ इतिवन्निष्कशब्दस्याधिकशब्देन सह संबन्धाभावात् “अधिकेन भूयसस्ते' [ २. २. १११. ] इत्यनेन निष्कशब्दान्न पञ्चमी ।। २.२.१०५ ।। यद्भावो भावलक्षणम् ॥ २. २. १०६ ॥
25 भावः-क्रिया, प्रसिद्धं लक्षणमप्रसिद्ध लक्ष्यम्; यस्य संबन्धिना भावेनक्रियया भावोऽपरक्रिया लक्ष्यते, तस्मिन् भाववति वर्तमानाद् गौणान्नाम्नः सप्तमी भवति । गोषु दुह्यमानासु गतः, दुग्धास्वागतः; अत्र कालतः
20