________________
२८६ ]
बृह वृत्ति-लवुन्याससंवलिते
[पा० २. सू० १०२-१०४.]
रङ्गत्वादुत्तरेणैव सिद्धा सपमो, किमतेनेति, नैवम्-पदान्तरसंबन्धादेकपदवर्तित्वेन । नसंबन्धस्यान्तरङ्गत्वादसमर्थनसमासस्य च नियतविषयत्वादर्थान्तराभिधायिना नञ्समासेनव मातु: संबन्धो युक्तोऽब्राह्मणमानयेत्यादिवदिति “साधुना" [ २. २. १०२. ] इत्युत्तरेण न सिध्यतीति वचनम्। नन्वभियोगे “लक्षणवीप्स्य०" [२. २. ३६. ] इत्यनेन, प्रत्यादियोगे तु “भागिनि०" [२. २. ३७. ] इत्यनेन च द्वितीयाया विशेष- 5 विधानात सप्तमी न भविष्यति, किमप्रत्यादावित्यनेन, सत्यम्-असाधूशब्दाभावेऽपि द्वितीया चरितार्था इति प्रत्यादिप्रयोगे सप्तमी स्यात् ।। २.२.१०१ ।।
साधुना ॥ २. २. १०२ ॥
साधुशब्देन युक्ताद् गौणान्नाम्नोऽप्रत्यादौ सप्तमी भवति । साधुमैत्रो राजनि, साधुर्मातरि । अप्रत्यादावित्येव साधुर्मैत्रो राजानं प्रति, राजानं परि,10 राजानमनु, राजानमभि । उत्तरत्राऽर्चायां विधानात्, अनर्चायां तु व्यावृत्तेस्तत्त्वाख्याने विधिरयम् । कथं तहि साधु त्यो राज्ञ इति ? भृत्यापेक्षाऽत्र षष्ठी न साध्वपेक्षा, साध्वपेक्षायां तु सप्तम्येव भवति ।। १०२ ।।
न्या० स०-साधुना। उत्तरत्रेति-पूर्वे त्व ग्रहणमुत्तरत्र निपुणविशेषणार्थमेव प्रतियन्तः सर्वत्र साधुशब्दयोगे सप्तमी प्रतियन्ति, यदुत्पल:-'एवं चार्चाग्रहणं निपुण-15 विशेषणार्थं संपद्यते' इति ।। २. २. १०२॥
निपुणेन चार्चायाम् ॥ २. २. १०३ ॥
निपुणशब्देन साधुशब्देन च युक्ताद् गौणान्नाम्नोऽप्रत्यादौ सप्तमी भवति, अर्चायां गम्यमानायाम्, षष्ठ्यपवादः। मातरि निपुणः, पितरि साधुः । अर्चायामिति किम् ? निपुणो मैत्रो मातुः, साधुमैत्रः पितुः, मातैवैनं20 निपुणं मन्यते, पितैव साधुमित्यनर्चायां न भवति । अप्रत्यादावित्येव-निपुणो मैत्रो मातरं प्रति, मातरं परि, मातरमनु, मातरमभि ।। १०३ ।।
न्या० स०-निपुणेन। अर्चायामिति-"अचिरण अर्चने" "भीषिभूषि०" [५. ३. १०६.] इत्यञ् बहुवचनात् । मातरि निपुरणः अत्र मातरि सुष्ठ वर्तत इति मैत्रादेः प्रशंसा गम्यत इति ।। २. २. १०३ ॥
स्वेशेऽधिना ॥ २. २. १०४ ॥ स्वे-ईशितव्ये, ईशे च स्वामिनि वर्तमानादधिना युक्ताद् गौणान्नाम्नः
25