________________
[पा० २. सू० १०१.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ २८५
गौणान्नाम्नः सप्तमी भवति । हेतुतृतीयाऽपवादः ।
"चर्मणि द्वीपिनं हन्ति, दन्तयोर्हन्ति कुञ्जरम् ।
केशेषु चमरी हन्ति, सीम्नि पुष्पलको हतः" ।। १ ।।
तद्यक्त इति किम् ? वेतनेन धान्यं लुनाति, नाऽत्र वेतनं धान्येन संयुक्तम्, धनेन वसति । हेताविति किम् ? देवस्य पादौ स्पृशति ।। १०० ।। 5
___ न्या० स०-तद्युक्तेः । तेन व्याप्येन युज्यते स्म । तथात्र नानादेशजविनेयानुग्रहार्थं युक्त-हेतुनिमित्तंकारणमिति बहुतरपर्यायकथनम्,हेतुशब्दोपादानात् त्विह विशिष्टमेव निमित्तमभिप्रेतं, न निमित्तमात्रम्, अन्यथा “तद्युक्त निमित्ते" इति कृते दात्रेण धान्यं लुनातीति निमित्तमात्रवाचिनो दात्रादपि स्यात् सप्तमी, कैन चोपपदविभक्त: कारकविभक्तिर्बलीयसी इति न भविष्यतीति वाच्यम्, यतो यथा कर्तृ-करणयोस्तृतीया विहितेति 10 तृतीयायाः कारकविभक्तित्वं तथाऽत्र सप्तम्या अपि 'व्याप्येन युक्तः' इति कारकश्रुत्या कारकविभक्तित्वम् ; सा ह्य पपदविभक्तिर्यत्र कारकगन्धोऽपि नास्ति, यथा शक्तार्थवषडादिभिर्योगे चतुर्थीति. तस्माद्ध तुशब्दाभिधेयं विशिष्टमेव निमित्तं, यदर्थः क्रियारम्भस्तदेवात्र निमित्तमभिप्रेतं न निमित्तमात्र, तेन दाबान्न सप्तमी, नहि दात्रा लवनक्रियेति । द्वीपिनमिति-द्विधा गता आपो यत्र "ऋक्तः०" [७. ३. ७६.] “द्वयन्तरनवर्ण."15 [ ३. २. १०६. ] इतोयादेशे द्वीपमस्यास्ति इन्, अयं नन्तः पुल्लिङ्गः, यदा तु द्वीपमाचष्टे रिणजि "विपिन." [ उणा० २८४. ] इति निपात्यते तदाऽकारान्त: “अभिधानद्वीपिनौ” इति प्रतिपदपाठात् पूक्लीबः । कुखौ दन्तावस्य स्तो "मध्वादिभ्यो र:" [ ७. २. २६. ] पूष्पं लातीति डेऽज्ञाताद्यर्थविवक्षायां के च-पुष्पलकः । देवस्य पादावितिअस्त्यत्र पादलक्षणेन कर्मणा देवस्य योगो हेतुत्वं तु नास्तीति ।। २. २. १०० ॥ 20
अप्रत्यादावसाधुना ॥ २. २. १०१॥
असाधुशब्देन युक्ताद् गौरणान्नाम्नोऽप्रत्यादौ-प्रत्यादिप्रयोगाऽभावे सप्तमी भवति । असाधुमैत्रो मातरि। अप्रत्यादाविति किम् ? असाधुमैत्रो मातरं प्रति, मातरं परि, मातरमनु, मातरमभि ।। १०१ ।।
न्या० स०--अप्रत्यादा०। इहादिशब्दस्य व्यवस्थावाचित्वात् प्रति परि अनु25 अभि इत्येत एवाप्रत्यादावित्यनेन ग्राह्याः । ननु साधुशब्देन सदाचार उच्यते, आचरणं च क्रियाविषयमिति मातृशब्देन तत्स्था परिचर्यादिक्रिया उच्यते इति मातृपरिचरणादिक्रियाणां सम्यगाचरिता मातरि साधुरित्युच्यते, तद्वै परीत्येनासाधुर्मातरीति, ततश्चाऽसाधुमैत्रो मातराति मातृविषयस्य साधुत्वस्य निषेधात् प्रथम मात्रा साधोर्योगादन्त