________________
२८४ ]
बृहद्वृत्तिल वुन्याससंवलिते
[ पा० २. सू० ६६ - १०० . ]
"
स्वामी, गवां स्वामी; गोष्वीश्वरः, गवामीश्वरः; गोष्वधिपतिः, गवामधिपति:; गोषु दायादः, गवां दायादः ; गोषु साक्षी, गवां साक्षी; गोषु प्रतिभूः, गवां प्रतिभूः, गोषु प्रसूतः, गवां प्रसूतः । “स्वामीश्वराऽधिपति ० ' इति पर्यायोपादानात् पर्यायान्तरयोगे न भवति - ग्रामस्य राजा, ग्रामस्य पतिः; षष्ठ्य ेव भवति । सप्तम्यर्थं वचनम् ।। ६८ ।।
न्या० स० -- स्वामीश्वरा० । अधिपतीति - प्रधिरूढः पति “प्रात्यव०" [३. १. ४७. ] इति सः, अधिकश्वाऽसौ पतिश्च वा । प्रसूते स्म “ गत्यर्थ ० " [ ५. १. ११. ] इति क्तः । सप्तम्यर्थं वचनमिति प्रयमर्थः स्वाम्यादीनां गवादिसंबन्धित्वं तन्निवृत्तौ हि तेषां स्वाम्यादिभावाभाव:, तत्रास्त्येव षष्ठी, सप्तमो तु क्रियाप्रतीत्यभावान्नास्तीति पक्षे सप्तमी प्रापरणार्थं वचनमिति ।। २. २.६८ ।।
5
10
व्याप्ये क्तेनः ।। २. २. ६६ ॥
इष्टादिभ्यः क्तान्तेभ्य इष्टमनेनेत्याद्यर्थे तद्धित इन् वक्ष्यते, क्तप्रत्ययान्ताद् य इन् तदन्तस्य व्याप्ये वर्तमानाद् गौरणान्नाम्नः सप्तमी भवति ; वेति निवृत्तम् । अधीतं व्याकरणमनेनेति वाक्याऽवस्थायामभिधायाऽधीतीति वृत्त्योक्तं नाऽनभिहिते कर्मणि प्रत्त्यायार्थकर्तृकेण च धात्वर्थेन व्याप्यमाने 15 कृतपूर्वी कटमित्यादाविव द्वितीयायां प्राप्तायां तदपवादोऽयम् । प्रधीतं व्याकरणमनेनाऽधीती व्याकरणे, ग्राम्नातं द्वादशाङ्गमनेनाऽऽम्नाती द्वादशाङ्ग े, परिगणितं ज्योतिरनेन परिगणिती ज्योतिषि ; इष्टो यज्ञोऽनेनेष्टी यज्ञे ।
न इति किम् ? कटं करोति । क्तग्रहणं किम् ? कृतपूर्वी कटम्, भुक्तपूर्वी प्रोदनम् । इन्ग्रहणं किम् ? उपश्लिष्टो गुरून् मैत्रः । व्याप्य इति किम् ?, 20 मासमधीती व्याकरणे, अत्र मासान्मा भूत्, मासस्य हि न कर्मत्वम्, द्वितीया तु " काला-ध्वनोर्व्याप्तौ ” [ २. २. ४२. ] इत्यनेन ।। ६६ ।।
तद्युक्ते हेतौ ॥ २. २. १०० ।।
हेतुर्निमित्तं कारणम्, तेन - व्याप्येन युक्त – संयुक्त हेतौ वर्तमानाद्
न्या० स० -- व्याप्येक्तेनः । वेति निवृत्तमिति व्याप्योपादानात्, तेन ह्यधिकारभेदः, पृथग्योगादिति वा । प्रत्ययार्थेत्यादि - प्रत्ययस्यार्थः प्रत्ययार्थः, प्रत्ययार्थः कर्ता यस्य धात्वर्थस्य अध्ययनलक्षणस्य स तथा तेन व्याप्यमाने व्याकरण इति ।। २.२ ।। 25