________________
[पा० २. सू० ६७-६८.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ २८३
15
भुङ्क्त; बहुधाऽह नि भुङ्क्त, बहुधाह नो भुङ्क्त । सुजथैरिति किम् ? अह नि भुङ्क्ते, रात्रौ शेते । बहुव्रीह्याश्रयणं किम् ? सुजर्थप्रत्ययस्याप्रयोगे गम्यमाने तदर्थे मा भूत् । काल इति किम् ? द्विः कांस्यपात्र्यां भुङ्क्ते । अधिकरणे इत्येव-द्विरह्ना भुङ्क्ते । आधारस्याऽऽधारत्वाऽविवक्षायां पक्षे शैषिकी षष्ठी सिद्धैव, नियमार्थं तु वचनम्, तेन प्रत्युदाहरणेषु शेषे षष्ठी न 5 भवत्येव ।। ६६ ।।
न्या० स०-नवा सु०। अधिकर, नित्यं स' मी सिद्धव, पक्षे षष्ठीविधानार्थं तु सूत्रम् । बहुव्रीह्याश्रयणं किमिति-अन्यथा षष्ठीतत्पुरुषाश्रयेण "सुजर्थे काले" इति कृते यदाऽर्थादिना द्विर्भुङ्क्त' इति द्विस्त्रिर्वेति प्रतीयते तदापि स्यात्, तदा मा भूदित्येवमर्थं तदाश्रयमित्यर्थः । द्विः कांस्यपाच्यामिति-कंसायेदं कंसीयं “परिणामिनि 10 तदर्थे" [ ७. १. ४४. ] इतीयः, ततः कंसीयस्य विकार: "कंसीयायः " [ ६. २. ४१. ] इति ञ्यो यलुक् च । द्विरह्ना भुङ्क्ते इति-अहरधिकरणमपि अत्राऽशने करणविवक्षामनुभवतीति तृतीयैव भवति । नियमाथं तु वचनमिति-सुजथैरेव योगे काले सप्तमी वा भवति, सुजोंगे काल एव वा सा मी भवतीत्युभयथापि नियमात् प्रत्युदाहरषु आधारस म्येव न षष्ठीति ।। २. २. ६६ ।।
कुशला-युक्तेनासेवायाम् ॥ २. २. ६७ ॥ ___ कुशलो-निपुणः, आयुक्तो-व्यापृतः; प्राभ्यां युक्तादाधारे वर्तमानाद् गौरणान्नाम्नः सप्तमी वा भवति, आसेवायां-तात्पर्ये गम्यमाने । कुशलो विद्याग्रहणे, आयुक्तस्तपश्चरणे; पक्षे अधिकरणाऽविवक्षायां शेषषष्ठी-कुशलो विद्याग्रहणस्य, आयुक्तस्तपश्चरणस्य । आसेवायामिति किम् ? कुशलश्चित्र-20 कर्मणि, न च करोति; आयुक्तो गौः शकटे-पाकृष्य युक्त इत्यर्थः, "अधिकरणे" [२. २. ६५.] इत्येव नित्यं सप्तमी। पक्षे आधारस्याऽविवक्षायां विकल्पे सिद्धेऽनासेवायामाधाराऽविवक्षानिवृत्त्यर्थं वचनम् ।। ६७ ।।
न्या० स०--कुशलायुक्ते । आयुक्त इति-"युजं पी" आयुङक्त स्म, “युजिच्” आयुज्यते स्म, कर्तरि क्तः ।। २. २. ६७ ।।
25 स्वामीश्वरा-धिपति-दायाद-साक्षिप्रतिभू-प्रसूतैः
॥२. २. ९८॥ एभिर्युक्ताद् गौणान्नाम्नः सप्तमी वा भवति; पक्षे-शेषषष्ठी। गोषु