________________
२७२ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[ पा० २. सू० ७८-७९.]
“गम्ययपः कर्माऽऽधारे” [२. २. ७४.] इति भविष्यति, धूमादिकमुपलभ्याऽग्न्यादिः प्रतिपत्तव्य इति ह्यत्राऽर्थः ज्ञानहेतुत्वविवक्षायां तु हेतुत्वलक्षणा तृतीया भवति - धूमेनाग्निः, अनुपलब्ध्या घटाभावः सत्त्वान्यथानुपपत्त्या सर्वमनेकान्तात्मकं प्रतिपत्तव्यमिति ।। ७७ ।।
न्या० स०-- - गुरगाद० । जडस्य भावः - दृढादित्वात् ट्यण् । परिख्यातस्य भाव: 5 “पतिराजान्त०” [७. १. ६०. ] इति ट्यण् । अस्त्यत्राग्निर्धूमादित्युदाहरणत्रयं यथाक्रमं शैव- बौद्ध-जैनमतेन । सत्त्वान्यथेति-सत्त्वम्-उत्पाद-व्यय- ध्रौव्ययुक्तत्वम्, सत्त्वस्य, अन्यथा-अनेकान्तात्मकत्वमन्तरेण, अनुपपत्तेः - प्रघटनात् ।। २. २. ७७ ।।
तस्य
आरादर्थैः ।। २. २. ७८ ॥
आराद् दूरा-ऽन्तिकयोः, तन्त्रेणोभयग्रहणम् ; दूरार्थैरन्तिकार्थैश्च शब्दे - 10 र्युक्ताद् गौणान्नाम्नः पञ्चमी वा भवति । दूरं ग्रामात् दूरं ग्रामस्य; विप्रकृष्टं ग्रामात् विप्रकृष्टं ग्रामस्य; अन्तिकं ग्रामात् ग्रन्तिकं ग्रामस्य; अभ्याशं ग्रामात्, अभ्याशं ग्रामस्य; संनिकृष्टं ग्रामात्, संनिकृष्टं ग्रामस्य । आरात्शब्दयोगे तु प्रभृत्यादिसूत्रेण नित्यमेव पञ्चमी । अथ दूरं हितं ग्रामात्, दूरं हितं ग्रामस्य भूयादित्यादौ हितादियोगे पञ्चम्यभावपक्षे "हित- 15 सुखाभ्याम्" [२. २. ६५. ] इति चतुर्थी कस्मान्न भवति ?, उच्यते-हितसुखादियोगे सा चतुर्थी, इह तु दूरान्तिकादिनैव योगो न तद्विशेषणेन हितादिनेति न भवति यदा तु हितादिना विशेष्यतया योगस्तदा चतुर्थी भवत्येव । अन्ये त्वसत्त्ववचनैरेवाऽऽरादर्थैरिच्छन्ति ।। ७८ ।।
न्या० स०--आरादर्थैः । दूरान्तिकादिनैव योग इति - कथं ? कर्तृ ? दूरं कस्य ? ग्रामस्य किं भूतं दूरं ? हितमिति दूरशब्देनैव विवक्षितो न तु हितशब्देन । श्रसत्त्ववचनैरिति धर्ममात्रवृत्तिभिः । षष्ठीप्राप्तौ वचनम् ।। २.२.७८ ।।
स्तोका-sल्प-कृच्छ्र-कतिपयादसत्त्वे करणे ॥
वर्त्तते, किं तत् 20 ग्रामस्य संबन्धो कारकशेषत्वात्
२. २. ७६ ॥
यतो द्रव्ये शब्दप्रवृत्तिः स पर्यायो गुणोऽसत्त्वम् तेनैव वा रूपेणाऽभि - 25 धीयमानं द्रव्यादि; तस्मिन् करणे वर्तमानेभ्यः स्तोकादिभ्यः पञ्चमी वा
1