________________
[पा० २. सू० ७६-७७.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ २७१
इति-ह्रियते इति "द्रागादयः" [ उणा० ८७०.] । पारियात्र इति-पारियातुरयं "तस्येदम्" [६. ३. १६०. ] अरण , अथवा परियाता देवता अस्य "देवता" [ ६. २. १०१. ] अण, यद्वा परिगता यात्रा यस्यासौ परियात्रः, परियात्र एव पारियात्र:-पर्वतः, पर्वतसमीपदेशोऽपि । प्रागेव "अदिस्त्रियाम्०" [ ७. १. १०७. ] इति स्वार्थे ईनः, नपुसकत्वं तु सामान्यभावेन, तथा च वर्तते, किं तत् ? कर्तृ प्राचीनं, किं तत् ? आम्रा 5 इति, यथा प्राक्शब्द: केवलोऽपि दिग्वाची तथा स्वाथिकेनप्रत्ययान्तोऽपि, ततस्तदन्तयोगेऽपि पञ्चमीति । अञ्चत्यन्तयोगे यथा प्राग् ग्रामादित्यादौ पञ्चमी तथाऽत्रापीति कञ्चिन्मुह्य त् तं प्रत्याह-न्यग् मैत्रस्येति-न्यक्-उपसर्जनं यथा भवति एवमवस्थित इत्यर्थः । अन्यार्थाद् भिद्यते इति-अयमर्थ:-अन्य इति प्रकृतिविलक्षणोऽर्थ उच्यते, इतर इति च दृश्यमानप्रतियोगीत्यर्थः, छात्रारणामिति-छात्रारणामवयवश्छात्रस्तस्मात् पूर्वं छात्रमामन्त्र-10 यस्वेति पूर्वत्वं छात्रान्तरापेक्षं, न छात्राणामिति समदायापेक्ष:, समदायस्य हि एकदेश: सः, न तस्य समुदायापेक्षया पूर्वत्व , तत्र पूर्वत्वेन योगश्छात्रान्तरस्य, समुदायस्य त्वेकदेशत्वेनेति । कायस्य पूर्वमिति-कायस्यावयविनो यद्भागान्तरं, कि विशिष्टं ? पूर्व, कस्याः सकाशात् ? नाभे: कायस्य संबन्धि यदवयवान्तरं पूर्वं तस्य नाभिरूपेणाऽवयवान्तरेण सह संबन्धः, कायस्य त्ववयवत्वेन ।। २. २.७५ ।।
ऋणाद्धेतोः ॥ २. २. ७६ ॥
फलसाधनयोग्यः पदार्थो हेतुः, हेतुभूतं यद् ऋणं तद्वाचिनो गौणान्नाम्नः पञ्चमी भवति; तृतीयाऽपवादः । शताद् बद्धः, सहस्राद् बद्धः । हेतोरिति किम् ? शतेन बद्ध:, शतेन बन्धितः, शतेन चैत्रेण बन्धितः; कर्तरि प्रयोज्ये प्रयोजके च कर्तृ लक्षणा तृतीया भवति, हेतुहि फलसाधनयोग्यः पदार्थः20 कादिभ्योऽन्य उच्यते इति कथं कर्तुर्हेतुत्वम् ? ।। ७६ ।।
.
15
गुणादस्त्रियां नवा ॥२. २. ७७ ॥
अस्त्रियां वर्तमानाद् हेतुभूतगुणवाचिनो गौणान्नाम्नः पञ्चमी वा भवति । जाड्याद् बद्धः, जाड्य न बद्धः; पारिख्यात्याद् मुक्तः, पारिख्यात्येन मुक्तः; मोहाद् बद्धः, मोहेन बद्धः; ज्ञानाद् मुक्तः, ज्ञानेन मुक्तः । गुणादिति25 किम् ? धनेन कुलम् । हेतोरित्येव-जाड्यस्यैतद् रूपम् । अस्त्रियामिति किम् ? बुद्धया मुक्तः, प्रज्ञया मुक्तः, विद्यया यशः । अस्त्यत्राग्नि—मात्, नास्तीह घटोऽनुपलब्धेः, सर्वमनेकान्तात्मकं सत्त्वाऽन्यथानुपपत्तेरित्यादौ नाऽग्न्यादे—मादिर्हेतुः, कस्य तर्हि ? तज्ज्ञानस्य, कथं तर्हि पञ्चमी ?