________________
बृहदवृत्ति - लवन्याससंवलिते
[पा० २. सू० ७५.]
प्रभृत्यन्यार्थ - दिक्शब्द - बहिरारादितरै ॥ २. २. ७५ ।।
प्रभृत्यर्थेः अन्यार्थेः दिक्शब्दैः 'बहिस् प्रारात् इतर' इत्येतैश्च शब्दैर्युक्ताद् गौणान्नाम्नः पञ्चमी भवति । प्रभृत्यर्थः - ततः प्रभृति, कार्त्तिक्याः प्रभृति, आरभ्य ग्रीष्मात्, ग्रीष्मादारभ्य । अन्यार्थः - अन्यो मैत्रात्, भिन्नश्चैत्रात्, अर्थान्तरं घटात्, व्यतिरिक्तः पटात्, विलक्षणोऽश्वात् पृथग् गजात्, 5 हिरुग् गार्ग्यात् । दिक्शब्दः - ग्रामात् पूर्वस्यां दिशि वसति, ग्रामादुत्तरस्यां दिशि वसति ; दिशि दृष्टा: शब्दा दिक्शब्दा इति देश - कालादिवृत्तिनापि भवति - पूर्व उज्जयिन्या गोनर्दः, उत्तरो विन्ध्यात् पारियात्रः, पूर्वो ग्रीष्माद् वसन्तः, पश्चिमो रामाद् युधिष्ठिरः, एतदर्थमेव च शब्दशब्दोपादानम्; गम्यमानेनाऽपि च दिक्शब्देन भवति - क्रोशाल्लक्ष्यं विध्यति, परेणेति गम्यते, 10 “कमेरिङ्” [३. ४. २. ] परो भवतीति गम्यते ; प्राग् ग्रामात् प्रत्यग् ग्रामात्, उदग् ग्रामात्, प्राचीनं ग्रामादाम्राः, दक्षिणाहि ग्रामात्, उत्तराहि ग्रामात्, दक्षिणा ग्रामात्, उत्तरा ग्रामात् न्यग् मैत्रस्याऽवस्थित इत्युपसर्जनत्वान्न दिक्शब्दता । बहिस् - बहिर्ग्रामात्, बहिष्पुरात्, प्रारादित्यव्ययं दूरसमीपयोर्वाचकम्, तेन तद्योगे वक्ष्यमाणस्य " प्रारादर्थेः " [ २. २.७८ ] इति 15 विकल्पस्यापवादोऽयम्-प्राराद् ग्रामात् क्षेत्रम्, प्रारात् मैत्रात् पीठम् ; इतरशब्दो द्वयोरुपलक्षितयोरन्यतरवचन:, तेनान्यार्थाद् भिद्यते - इतरश्चैत्रात्, तस्य द्वितीयो मैत्रादिरित्यर्थः । अथ 'जिनदत्तादन्योऽयं मैत्रस्य, जिनदत्तादितरोऽयं चैत्रस्य, छात्राणां पूर्वमामन्त्रयस्व, कायस्य पूर्वम्' इत्यादौ मैत्र- चैत्र - च्छात्रकायशब्देभ्यः कथं न भवति ? उच्यते - प्रत्यासत्तेर्यस्यैवान्यत्वादिधर्मनिमित्तो- 20 ऽन्यशब्दादिना योगस्तत एव जिनदत्तादेः पञ्चमी भवति, न मैत्रा - देरिति ।। ७५ ।
२७० ]
न्या० स०-- प्रभृत्य ० । दिश: शब्दा:, दिशि दृष्टा: शब्दा वा तदा "मयूरव्यंसक ०" [ ३. १. ११६. ] इति दृष्टलोपः, दिशि ये वाचकत्वेन दृष्टास्ते इह दिक्शब्दाः इति विज्ञायन्ते, न तु दिशि वर्तमाना एव तेन दिशो वाचकत्वेन दृष्टस्य शब्दस्य देशे 25 काले, आदिशब्दात् भावे द्रव्ये च वृत्तावपि तद्योगे पञ्चमी । ग्रीष्मादारभ्येति - प्रारभ्येति क्त्वान्तम्, अक्त्वान्तमव्ययं वा । श्रर्थान्तरमिति - अर्थमन्तरयति, अथवा एकस्मादर्थादिति वा । पृथगिति - पृथि: सूत्रधातुः " रुधि- पृथि ०" [ उणा ० ८७४.] इति किदक् । हिरुक्