________________
[पा० २. सू० ७४.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ २६६
श्रावकात् शृणोति; प्रत्येकबुद्धादधिगच्छति। आख्यातरीति किम् ? उपाध्यायात् शास्त्रमागमयति, अत्र शास्त्रान्मा भूत् । उपयोग इति किम् ? नटस्य शृणोति, उपयोगविवक्षायां त्वत्राऽपि भवति-नटाद् भारतं शृणोति । अपादानत्वेनैव सिद्धे उपयोग एव यथा स्यादित्येवमर्थं वचनम् ।। ७३ ।।
न्या० स०-पाख्यातर्यु । नियमपूर्वकेति-नियमो विद्याग्रहणार्थं गुरुशुश्रूषादिकं 5 शिष्यवृत्तमाख्यायते, न तूपयोगमात्रं, यत उपयोगमानं नटादपि भवत्यतस्तस्मादपि स्यात् पञ्चमी । श्रावकादिति-श्रावयतीति रणकः । प्रत्येकेति-प्रत्येकम्-इन्द्रध्वजादिकं निमित्तमाश्रित्य, बुद्धः-प्रत्येकबुद्धः ।। २. २. ७३ ।।
गम्ययपः कर्मा-धारे ॥२. २. ७४ ॥
गम्यस्य-अप्रयुज्यमानस्य, यपो-यबन्तस्य, यत् कर्म आधारश्च तत्र10 वर्तमानाद् गौणान्नाम्नः पञ्चमी भवति; द्वितीया-सप्तम्योरपवादः । प्रासादात् प्रेक्षते, आसनात् प्रेक्षते; प्रासादमारुह्यऽऽसने चोपविश्य प्रेक्षते इत्यर्थः । गम्यग्रहणं किम् ? प्रासादमारुह्य शेते, प्रासने उपविश्य भुङ्क्त; नह्यत्र यबन्तस्याऽप्रयोगे तदर्थः प्रतीयते । यग्रहणं किम् ? प्रविश पिण्डीम् प्रविश तर्पणम्, वृक्षे शाखा, ग्रामे चैत्रः; अत्र हि भक्षय-कुरु-अस्ति-वसतीनां15 गम्यता न तु यपः । ननु यथा कुशूलादादाय पचति-कुशूलात् पचतीत्यत्रादानाऽङ्ग पाके पचेर्वर्तनादुपात्तविषयमेतदपादानमिति पञ्चमी भवति, एवमिहाऽपि अपक्रमणाऽङ्गे दर्शने दृशेर्वर्तनाद् भविष्यति; तथाहि-तत् ततोऽपक्रामति, अनपक्रामद्धि न विषयं गृह्णीयात्, सत्यम्-किन्तु आरुह्य उपविश्येति यबन्तार्थोऽपि गम्यते, ततो यथा यबन्ते प्रयुज्यमाने कर्मा-ऽधिकरणयोद्वितीया-20 सप्तम्यौ भवतस्तद्वदप्रयुज्यमानेऽपि तदर्थप्रतीतेस्ते प्रसज्येयातामिति सूत्रमारभ्यते ।। ७४ ।।
न्या० स०-गम्ययपः। एवमिहापीति-अयमर्थः-प्रासादान्निःसृत्यापक्रम्य चक्षु रश्मिद्वारा प्रेक्षते. प्रासादान्निस्सरता चाषा कृत्वा देवदत्तः प्रेक्षते वा। तत तत्तोऽपकामतीति, अयमर्थः-तत:-प्रासादादेः, तत्-चक्षुरादि, अपैति-निस्सरतीति तस्यापाये-25 ऽवधिभूतत्वादपादाने पञ्चमी सिद्धैव । अनपनामद्धीति-एतन्न यायिकमताभिप्रायेणोक्त, ते हि प्राप्यकारीणीन्द्रियाणि मन्यन्ते । दशेर्वर्तनादिति-दृशेरिति कोऽर्थः ? दृशिसमानार्थस्य ईक्षेरित्यर्थः ।। २. २.७४ ।।