________________
२६८ ]
बृहद्वृत्तिलघुन्याससंवलिते
[पा० २. सू० ७२-७३.]
न्या० स०-पर्यपा० । वयं-वय॑कसंबन्धः पर्यपाभ्यां द्योत्यत इति । "वाक्यस्य परिवर्जने" [ ७. ४. ८८. ] इत्यनेन परि परीत्यत्र वा द्वित्वम् । अपशब्दो मैत्रस्य अपगतः शब्दात्, तत्पुरुषस्य पूर्वपदप्रधानत्वात् पूर्वपदेन 'अप' इत्यनेन सह मैत्रशब्दस्य योगोऽस्तीति न वर्ण्य इति व्यावृत्तेद्वर्यङ्गविकलता, अत्र मैत्रशब्दान्मा भूत् ।। २. २. ७१ ।।
यतः प्रतिनिधि-प्रतिदाने प्रतिना ॥ २. २. ७२ ॥ 5
प्रतिनिधीयत इति प्रतिनिधिमुख्यस्य सदृशोऽर्थः, प्रतिदानं-गृहीतस्य प्रत्यर्पणं विशोधनमिति यावत् ; प्रतिना योगे यतः प्रतिनिधिर्यतश्च प्रतिदानं तद्वाचिनो गौरणान्नाम्नः पञ्चमी भवति । प्रद्युम्नो वासुदेवात् प्रति, अभयकुमारः श्रेणिकतः प्रति, सदृश इत्यर्थः; तिलेभ्यः प्रति माषानस्मै प्रयच्छति, तिलान् गृहीत्वा माषान् ददातीत्यर्थः; एवं-सपिषोऽस्मै तैलं प्रति सिञ्चति,10 सर्पिषोऽस्मै तैलं प्रति सिक्त्वा व्रजति । यत इति किम् ? 'तिलेभ्यः प्रति माषान् प्रयच्छति' इत्यत्र माषशब्दान्मा भूत् । प्रतिनिधि-प्रतिदान इति किम् ? वृक्षं प्रति विद्योतते विद्य त् ।। ७२ ।।
न्या० स०--यतः प्रति०। यस्मात् "किमद्वयादि०" [७. २. ८६.] इत्यपादाने तस् "पा द्वरः" [२. १. ४१.] यदा यस्य यतः, तदा "माद्यादिभ्यः" [७. २. ८४.]15 "पृषोदर." [३. २. १५५.] इति दलोपः । प्रतिनिधिप्रतिदानशब्दात् प्रथमा औ दीयते । प्रतिनिधीयत इति-प्रतीतः सन् मुख्यस्थाने निधीयते-आरोप्यते, सदृशः क्रियते इति तात्पर्यार्थः । प्रतिदानमिति-तुल्यजातीयेनाऽतुल्यजातीयेन वा विशोधनमिति शेषः । प्रद्युम्नो वासुदेवात् प्रति द्युभिर्मीयते "धुसुनिभ्यो माङो डित्" [उणा० २६६.] नः, प्रकृष्टं द्युम्नंपराक्रमो यस्य प्रद्युम्नः, सदृशः क्रियते, केन सह ? वासुदेवेनेति, "तुल्यार्थः०20 [२. २. ११६.] इति तृतीया-षष्ठयोः प्राप्तिः। श्रेणी: कायति प्रसन्नचक्षुषेति-श्रेणिकः, तस्मात् “प्रतिना पञ्चम्याः" [७. २. ८७.] इति तसुः । तिलेभ्यः प्रतीति-प्रयच्छतिप्रददाति, कान् ? माषान्, कथं भूतान् ? प्रति-प्रतिदानभूतान्, केषां ? तिलानामिति, प्रतिशब्दात् द्वितीयैकवचनम् । प्रति सिञ्चति नात्र सिचः प्रतिना योगोऽपि तु सर्पिष इति "स्थासेनि०" [२. ३. ४०.] इत्यनेनोपसर्गत्वाभावान्न षत्वम् ।। २. २. ७२ ।।।
25
आरण्यातयुपियोगे ॥ २. २. ७३ ॥
आख्याता-प्रतिपादयिता, तत्र वर्तमानाद् गौणानाम्नः पञ्चमी भवति; उपयोगे-नियमपूर्वकविद्याग्रहणविषये। उपाध्यायादधीते, प्राचार्यादागमयति,