SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ [ पा० २. सू० ६९-७१.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ २६७ विभक्त्या उपपदविभक्तिस्तदपेक्षणाद् बहिरङ्गा चतुर्थी बाध्यते उपपदविभक्त ेः कारकविभक्तिर्बलीयसी इति न्यायात्, ननु कारकविभक्तिरपि क्रियापदापेक्षिणीति कथमन्तरङ्गा ? नैष दोषः - कारकस्य क्रियामात्र संबन्धाव्यभिचारात् स्वरूपान्तर्गतैव सापेक्षा । यद्यवमिति - कारकविभक्त्या द्वितीयया बाध्यमाना कथमत्र चतुर्थीति प्रश्नार्थः । नमस्कृत्य, ब्रह्मणेऽमिततेजसे । "स्वयंभुवे मुनिप्रणीतान् विविधान्, मन्त्रान् व्याख्यामि शाश्वतान् ।। १ ।। ” ।। २.२. ६८ ॥ पञ्चम्यपादाने ॥। २. २. ६६ ॥ अपादाने कारके गौरणान्नाम्नो यथासंख्यमेक - द्वि-बहौ ' ङसि - भ्यां भ्यस्' लक्षणा पञ्चमी विभक्तिर्भवति । ग्रामादागच्छति, पर्वतादव रोहति, 10 गोदाभ्यामागच्छति, यवेभ्यो गां वारयति, कुसूलात् पचति, बलाहकाद् विद्योतते विद्युत्, चौराद् बिभेति ।। ६६ ।। 5 आङावधौ ॥ २. २. ७० ॥ अवधिर्मर्यादा, अभिविधिरपि तद्विशेष एवेति तस्यापि ग्रहणम् ; अवधौ वर्तमानात् प्राङा युक्ताद् गौणान्नाम्नः पञ्चमी भवति । प्र पाटलिपुत्राद् 15 वृष्टो मेघः, पाटलिपुत्रमवधीकृत्य तद्वयाप्याऽव्याप्य वा वृष्ट इत्यर्थः ; आ कुमारेभ्यो यशो गतं गौतमस्य ।। ७० ।। न्या० स०-- आङाव० । प्रवृत्तस्य यत्र निरोधः स मर्यादा, मर्यादाभूतमेव यदा व्याप्यते तदाऽभिविधिः । पाटलिपुत्रमवधीकृत्येति - एतावानर्थ आङा 20 क्रियया द्योत्यते ।। २.२. ७० ।। पर्याभ्यां वर्ज्ये ॥ २. २. ७१ ॥ वर्ज्ये-वर्जनीयेऽर्थे वर्तमानात् पर्यपाभ्यां युक्ताद् गौरणान्नाम्नः पञ्चमी भवति । परि पाटलिपुत्राद् वृष्टो मेघः, परि परि पाटलिपुत्राद् वृष्टो देवः ; अप पाटलिपुत्राद् वृष्टो देवः, पाटलिपुत्रं वर्जयित्वेत्यर्थः । वर्ज्य इति किम् ? अपशब्दो मैत्रस्य ।। ७१ ।। 25
SR No.032128
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages650
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy