________________
२६६ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० २. सू० ६८.]
शक्तार्थ-वषड्-नमः स्वस्ति-स्वाहा-स्वधाभिः
॥२. २. ६८ ॥ शक्तार्थैर्वषडादिभिश्च शब्दैर्युक्तात् गौणान्नाम्नश्चतुर्थी भवति, पृथग्योगाद् वेति निवृत्तम् । शक्तो मैत्रश्च त्राय, शक्नोति मैत्रश्च त्राय, प्रभवति मैत्रश्च त्राय, अलं मल्लो मल्लाय, समर्थो मल्लो मल्लाय, प्रभुमल्लो मल्लाय; 5 वषट्-वषडग्नये, वषडिन्द्राय; नमस्-नमोऽर्हद्भ्यः, नमः सिद्धेभ्यः; स्वस्तिस्वस्ति प्रजाभ्यः, स्वस्ति संघाय; स्वाहा-इन्द्राय स्वाहा, अग्नये स्वाहा; स्वधा-पितृभ्यः स्वधा । स्वस्तिशब्दः क्षेमार्थः, तद्योगे आशिष्यपि परत्वाद् नित्यमेव-स्वस्ति संघाय भूयात्, स्वस्ति प्रजाभ्यो भूयात् । तृतीयया योगाऽभिधानादिह न भवति-नमो जिनाऽऽयतनेभ्यः, नात्र जिनानां नमसा 10 योगः; नमस्यति जिनानित्यत्रापि नमस्यधातुना योगो न नमसा । यद्यवं कथं स्वयंभुवे नमस्कृत्येति ? नानेनात्र चतुर्थी, किन्तु नमस्कृतिलक्षणया क्रिययाऽभिप्रेयमाणत्वात् संप्रदानत्वे "चतुर्थी" [२. २. ५३.] इत्यनेनैव ; स्वयंभुवं नमस्कृत्येत्यत्र तु क्रियाऽभिप्रेयत्वाविवक्षायां द्वितीयैव ।। ६८ ॥
न्या० स०-शक्तार्थ । पृथग्योगाद् वेति निवृत्तमिति-तत्र कश्चित् सामस्त्येन15 पृथग्योगः, कश्चिदेकदेशेन संभवति, अत्र तावदेकदेशेन, तथाहि-"हितसुखाभ्याम्" [२. २. ६५. ] इत्यनेन स्वस्तिशब्दस्यैकयोगाकरणात्, एकयोगे च कृतेऽनाशंसायां "हितसुखस्वस्तिभिः" इत्यनेन, आशंसायां तु "तद्भद्र०" [ २. २. ६६. ] इत्यनेन तदिति पूर्ववस्तुपरामर्शन क्षेमद्वारेण वा विकल्पः सिद्ध एव, तदकरणाद् 'वा' इति निवृत्तमित्यर्थः । ननु कथमत्रैकदेशेन पृथग्योगो न सामस्त्येन ? उच्यते-"तद्भद्र" [२. २. ६६. ] इत्यत्र 20 व्यभिचारात्, तथाहि-"तद्भद्र०" [२. २. ६६. ] इत्यत्रार्थपरो निर्देशः, अयं तु शब्दपरः एवेति; "परिक्रयणे" [२. २. ६७. ] इत्यनेन तु एकयोगत्वं न व्याख्येयमर्थस्याऽसंगतेः, तत्र हि परिक्रयणे वर्तमानानाम्न इत्युक्तम्, अनेन त्वेकयोगे वषडादिवत् परिक्रयणशब्दस्वरूपपरिग्रहः स्यादिति । परत्वान्नित्यमेवेति-ननु "स्पर्द्ध" [ ७. ४. ११६. ] परः, समानविषययोश्च स्पधं इति, समानविषयत्व "तद्भद्र० | २. २.६६.] इत्यस्य दर्शयति,25 तथाहि-स्वस्ति जाल्मायेत्यत्र जाल्मत्वेनाशीरभावात् तत्त्वाख्यानमिदमिति स्वस्तिचतुर्थ्या अवकाशः, क्षेमं भूयात् संघायेत्यत्र तु क्षेमचतुर्थ्या अवकाशः, स्वस्ति प्रजाभ्य इत्यत्रोभयप्राप्तौ परत्वादाशिष्यपि नित्यं स्वस्तिचतुर्थी भवतीत्यर्थः । नमसेति-यद्वाऽस्तु नमसा योग:, तथापि नम:शब्दस्यार्थवतो ग्रहणादनर्थकयोगे न भवति, अत्र हि नमस्यधातुरर्थवान्न तु तदेकदेशो नमःशब्द इति; अथवा पदान्तरसंबन्धानपेक्षणादन्तरङ्गया द्वितीयया कारक-30