________________
[पा० २. सू० ६७.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ २६५
भवति । हित-सुखशब्दाभ्यां पूर्वेण विकल्पः सिद्ध एव, तदर्थार्थं तु तद्ग्रहणम् ।। ६६ ।।
न्या० स०-- तद्भद्रा०। भद्र-क्षेमार्थयोरन्यत्रैकार्थत्वेऽपि क्षेमम्-आपदोऽभावः, भद्रं-संपदुत्कर्ष इत्यर्थभेदाद् द्वितीयोपादानम् । आयुष्यमस्तु चैत्रायेति-आयुः प्रयोजनमस्य घृतादेरायुष्यं-घृतादि; ततश्च दीर्घमायुरस्तु मैत्रायेत्यादौ चतुर्थी न प्राप्नोति, यत आयुः 5 शब्देन जीवितमेवाभिधीयते, न तु जीवितकारणं घृतादिकम्, उच्यते-कार्ये कारणोपचारात्, यथा-इन्द्रः स्थूणा, यदा त्वायुरेव भेषजादित्वात्] स्वार्थे टयणि आयुष्यशब्दो निष्पाद्यते तदा निर्विवादं सिद्धमेव । आमयस्याभावः-निरामयम् "विभक्तिसमीप०" [ ३. १. ३६.] इति समासः। आयुष्यं प्राणिनामिति-अत्र आयुषि साधु "तत्र साधौ” [ ७. १. १५. ] यः। तद्ग्रहणमिति-तहि प्रागप्यर्थग्रहणमस्तु, सत्यम् तदर्था-10 नामाशिषि नियमार्थमिदम् ।। २. २. ६६ ।।
परिक्रयणे ॥ २. २. ६७ ॥
परिक्रीयते-नियतकालं स्वीक्रियते येन तत् परिक्रयणं वेतनादि, तस्मिन् वर्तमानाद् गौरणान्नाम्नश्चतुर्थी वा भवति । शताय परिक्रीतः, शतेन परिक्रीतः; "संभोगाय परिक्रीतः कर्ताऽस्मि तव नाप्रियम् ।” संभोगेन वा; शतादिना15 नियतकालं स्वीकृत इत्यर्थः । परीति किम् ? शतेन क्रीणाति, क्रयस्यात्र करणं न परिक्रयस्य । करणाश्रयणं किम् ? शताय परिक्रीतो मासम्, मासात् मा भूत् ।। ६७ ।।
न्या० स०-परिक्र०। स्वीकारो ह्यात्मसात्करणं परिक्रय उच्यते, परिशब्दोऽत्र प्रत्यासत्ति द्योतयति, यथा-परिसहस्रा गाव इति सहस्रप्रत्यासन्नाः संभाव्य परिसहस्रा गाव20 उच्यन्ते, एवमत्रापि क्रयप्रत्यासन्नोऽल्पकालो वेतनादिना स्वीकारः परिक्रय उच्यते, तत्र यत् करणं परिक्रयक्रियायां साधकतमं वेतनादि तत् करणव्युत्पत्त्या परिक्रयणमुच्यते । वेतनादीति-आदिपदाद् भाटकादिपरिग्रहः । करणाश्रयणं किमिति-करणाश्रयणं विना परिक्रीयतेऽस्मिन्नित्यनया व्युत्पत्त्या मासादपि स्याच्चतुर्थी । शताय परिक्रीतो मासमितिक्रीत इति रूपं कर्मणि कर्तरि वा, तथाहि-परिक्रीयते स्म परिक्रीतः, क: कर्मतापन्नः ? 25 चैत्रः, कं ? मासम्, कोऽर्थः ? मासे; यद्वा परिक्रीणीते स्म कर्तरि क्तः कर्मणोऽविवक्षितत्वात्; अथात्र मासमिति कर्म विद्यते तत् कथं कर्तरि क्तः, उच्यते-मासमित्यत्र "कालाध्वभाव०" [ २. २. ४२. ] इत्यनेनाधारस्य युगपत् कर्मसंज्ञाऽकर्मसंज्ञा च, तत्र कर्मसंज्ञायां कर्मणि द्वितीया, अकर्मसंज्ञायां तु कर्तरि क्तः ।। २. २. ६७ ॥