________________
२६४
]
बृहवृत्ति-लघुन्याससंवलिते
[पा० २. सू० ६५-६६.]
परत्वात् षष्ठीति-"कर्मणि कृतः" [ २. २. ८३. ] इत्यनेन तृणशब्दाद् नित्यं । पष्ठी, युष्मच्छब्दात् तु "वैकत्र द्वयोः" [ २. २. ८५. ] इति षष्ठीविकल्पाद् द्वितीया, यदा तु युष्मदग्रत: "कर्मणि कृतः" [ २. २. ८३. ] इत्यनेन नित्यं षष्ठी तदा तृणशब्दाद् "वैकत्र द्वयोः" [ २. २. ८५. ] इत्यनेन विकल्पेन षष्ठी, तद्विकल्पपक्षे चतुर्थ्यपि-न तव तृणाय मन्ता, तृणस्य मन्ता, तृणं मन्तेति वा। चतुर्थ्यपीति कश्चिदिति-अजितयशोवादी 5 दुर्गसिंहश्च, "कर्मणि कृतः" [२. २. ८३.] इत्यनेन षष्ठीप्राप्तौ, "वैकत्र द्वयोः" [ २. २. ८५.] इत्यस्य तु पक्षे सिद्धैवेति । न त्वं बुसो मन्यसे इति-अत्र विशेषणविशेष्यभावेन उभयमपि कर्म उक्तम्, यथा-कटः क्रियन्ते वीरणानि ।। २. २. ६४ ॥
हितसुखाभ्याम् ॥ २. २. ६५ ॥
हित-सुखाभ्यां युक्ताद् गौणान्नाम्नश्चतुर्थी वा भवति । आतुराय10 आतुरस्य वा हितम्, आमयाविने आमयाविनो वा हितम्, चैत्राय चैत्रस्य वा सुखम् ।। ६५ ।।
तद्भद्रा-युष्य-क्षेमा-र्थाऽर्थेनाशिषि ॥२. २. ६६ ॥
तदिति हित-सूखयोः परामर्शः, अर्थशब्दः प्रत्येकमभिसंबध्यते; हिताद्यर्थैर्युक्ताद् गौणानाम्न आशिषि गम्यमानायां चतुर्थी वा भवति ।15 हितार्थे-हितं जीवेभ्यो भूयात्, हितं जीवानां भूयात् ; पथ्यं मैत्राय भूयात्, पथ्यं मैत्रस्य भूयात् ; सुखार्थे-सुखं प्रजाभ्यो भूयात्- सुखं प्रजानां भूयात्; शं प्रजाभ्यो भूयात्, शं प्रजानां भूयात्; शर्म भवताद् भव्येभ्यः, शर्म भवताद् भव्यानाम् ; भद्रार्थे-भद्रमस्तु जिनशासनाय, भद्रमस्तु जिनशासनस्य; मद्रमस्तु जिनशासनाय, मद्रमस्तु जिनशासनस्य ; कल्याणमस्तु जिनशासनाय, कल्याण-20 मस्तु जिनशासनस्य; आयुष्यार्थे-पायुष्यमस्तु चैत्राय, आयुष्यमस्तु चैत्रस्य; दीर्घमायुरस्तु मैत्राय, दीर्घमायुरस्तु मैत्रस्य ; चिरं जीवितमस्तु मैत्राय, चिरं जीवितमस्तु मैत्रस्य; क्षेमार्थे-क्षेमं भूयात् संघाय, क्षेमं भूयात् संघस्य; कुशलं भूयात् संघाय, कुशलं भूयात् संघस्य ; निरामयं भूयात् साधुभ्यः, निरामयं भूयात् साधूनाम् ; अर्थार्थे-अर्थो भूयात् मैत्राय, अर्थो भूयात् मैत्रस्य; प्रयोजनं25 भूयात् मैत्राय, प्रयोजनं भूयात् मैत्रस्य ; कार्यं भूयात् मैत्राय, कार्यं भूयात् मैत्रस्य। आशिषीति किम् ? आयुष्यं प्राणिनां घृतम्, तत्त्वाख्याने न