________________
२६२ ]
बृहद्वृत्तिलघुन्याससंवलिते
[पा० २. सू० ६३-६४.]
एधेभ्यो व्रजति ननु एघार्थं व्रजतीति तादर्थ्य एव चतुर्थी भविष्यति, किमनेन ? । उच्यते-व्रज्याया एधाहरणार्थतायां विश्रामोऽस्ति, न त्वेधार्थतायामिति न सिध्यति ।। २. २. ६२ ।।
गतेनवानाप्ते ॥ २. २. ६३ ॥
गतिः-पादविहरणं, तस्या गतेराप्येऽनाप्ते-असंप्राप्ते वर्तमानाद् 5 गौणान्नाम्नश्चतुर्थी वा भवति । ग्रामं गच्छति, ग्रामाय गच्छति; नगरं व्रजति, नगराय व्रजति; विप्रनष्टः पन्थानं गच्छति, पथे गच्छति, उत्पथेन पन्थानं पथे वा गच्छति । गतेरिति किम् ? आदित्यं पश्यति, मेरु शृणोति, स्त्रियं गच्छति; मनसा मेरु गच्छतीत्यत्र ज्ञानार्थो गमिः । आप्य इत्येवग्रामादागच्छति । अनाप्त इति किम् ? पन्थानं गच्छति । कृद्योगे तु परत्वात्10 षष्ठ्य व भवति-ग्रामस्य गन्ता । द्वितीयैवेत्यन्ये-ग्रामं गन्ता । चतुर्थी चेत्यन्ये ग्रामं गन्ताग्रामाय गन्तेति ।। ६३ ।।
न्या० स०--गतेनवा०। गतिशब्दस्य ज्ञानाद्यर्थत्वेऽप्यनाप्त इति वचनात् पादविहरणरूपैव गतिगृह्यते, ज्ञानादिव्याप्यस्याऽनाप्तत्वाऽसंभवादित्याह-गतिः पादविहरणमिति । स्त्रियं गच्छतीति-भजनार्थोऽत्र गमिर्न गत्यर्थ इति न चतुर्थी । पन्थानं15 गच्छतीति-अनाप्त-असंप्राप्त कर्मणि चतुर्थी, पन्थास्तु संप्राप्त इति चतुर्थ्यभावः । द्वितीयवेत्यन्य इति-सारसंग्रहकारादयः, ते हि-“गत्यर्थकर्मणि द्वितीया-चतुथ्यौं' इति सूत्रेण कर्मणि द्वितीयायां प्राप्तायां तदपवादो वैकल्पिकी चतुर्थ्यारभ्यते इति पक्षे द्वितीया सिद्धैवेति द्वितीयाग्रहणात् ग्रोमं गन्तेत्यत्र कृतः कर्मणि अपवादभूतामपि षष्ठीं बाधित्वा द्वितोयैव भवति, चतुर्थी तु षष्ठया परत्वाद् बाध्यत एवेति मन्यन्ते। चतुर्थी चेत्यन्य 20 इति-उत्पल इत्यर्थः, स ह्यवं मन्यते-द्वितीयाविषय इयं वैकल्पिकी चतारभ्यते, द्वित याश्चात्रापवादात् कुतोऽपि विषय उपनत इति तद्विषये पक्षे चतुर्थी प्रवर्तत एव-ग्रामं गन्ता, ग्रामाय गन्तेति । एतेषु चायमस्मदभिमतः षष्ठीपक्षः श्रीशेषभट्टारकस्यापि संमतः, कथं हि शब्दानां साधुत्वं युक्तिबलेन शक्यं व्यवस्थापयितु, यत्र तुल्यपदार्थे उष्णं च तदुदकं च उष्णोदकमिति साधुः, उष्णं च तत् पानीयं च उष्णपानोयमिति कालदृष्टोऽपशब्दः,25 तापसश्चायं कुमारश्च तापसकुमार इति साधुः, तापसी चेयं कुमारी च तापसकुमारीति अचिकित्स्योऽपशब्दः, पानीयोष्णं कुमारतापसी चेति साधुरेव ।। २. २. ६३ ।।
मन्यस्यानावादिभ्योऽतिकृत्सने ॥ २. २. ६४ ॥ अतीव कुत्स्यतेऽनेनेत्यतिकुत्सनम्, तस्मिन् मन्यतेराप्ये वर्तमानात्