________________
[पा० २. सू० ६१-६२.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ २६१
द्विकर्मकोऽयं ज्ञापिः, तत्र केचिद् यस्मै आख्यायते तत् ज्ञाप्यं संप्रदानत्वेन प्रतिपन्नाः, केचिद् य आख्यायते तमिति, तन्मते-मैत्रमात्मने श्लाघते इत्युदाहरणम् । २. २. ६० ॥
तुमोऽर्थे भाववचनात् ॥ २. २. ६१ ॥
क्रियायां क्रियायामुपपदे तुम् वक्ष्यते, तस्याऽर्थे ये भाववाचिनो घञादयः प्रत्यया विधास्यन्ते तदन्ताद् गौणानाम्नः स्वार्थे चतुर्थी भवति । 5 पाकाय व्रजति, पक्तये व्रजति, पचनाय व्रजति, इज्यायै व्रजति; पक्त यष्टुं वा व्रजतीत्यर्थः । तादर्थ्यस्य प्रत्ययेनैवोक्तत्वात् चतुर्थी न प्राप्नोतीति शेषषष्ठी हेतुहेतुमद्भावविवक्षायां वा हेतुतृतीया स्यादिति चतुर्थ्यर्थं वचनम् । तुमोऽर्थे इति किम् ? पाकस्य, त्यागस्य, पाकेन वर्तते, त्यागेन वर्तते, अध्ययनेन वसति; नाऽत्र क्रियायां क्रियार्थायामुपपदे प्रत्ययो विहितः, किं तहि ? भावमात्रे,10 पश्चात् तु क्रिययाऽभिसंबन्ध इति हेतौ तृतीयैव भवति । भाववचनादिति किम् ? पक्ष्यतीति गां दास्यतीति च पाचकस्य व्रज्या, गोदायस्य परिसर्या । तुम इति व्यस्तनिर्देश उत्तरार्थः ।। ६१ ।।।
न्या० स०--तुमोऽर्थे। भवनं भावः “भावाकोंः " [ ५. ३. १८. ] घन्, वक्तीति ब्रवीतीति वा “रम्यादिभ्यः" [ ५. ३. १२६. ] कर्तर्यनट् , भावस्य वचनो15 भाववचनस्तस्मात् । पाकायेति-पक्तु पक्ष्यते इति वा वाक्ये "भाववचनाः" [५. ३. १५.] इति घञादयः ।। २.२.६१ ॥
गम्यस्याये ॥२. २. ६२ ॥
यस्यार्थो गम्यते न च शब्दः प्रयुज्यते स गम्यः, तस्य तुमो यदाप्यं-व्याप्यं तत्र वर्तमानाद् गौणानाम्नश्चतुर्थी भवति । द्वितीयाऽपवादः । एधेभ्यो व्रजति,20 फलेभ्यो व्रजति; एधान् फलानि चाऽऽहर्तुं व्रजतीत्यर्थः । गम्यस्येति किम् ? एधानाहर्तुं व्रजति । प्राप्य इति किम् ? एधेभ्यो व्रजति शकटेन, करणात् मा भूत् । तुम इत्येव-प्रविश पिण्डी द्वारम्, अत्र भक्षयेति पिधेहीति च गम्यम् ॥ ६२ ॥
न्या० स०--गम्यस्या०। शब्दोऽर्थवानप्यप्रयुज्यमानः प्रयुज्यमानश्च भवति,25 अप्रयुज्यमानश्वार्थ-प्रकरण-शब्दान्तरसन्निधानः प्रतीयमानार्थः, स च गम्य इत्युच्यते ।