________________
२६० ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० २. सू० ५६-६०.]
उत्पातेन ज्ञाप्ये ॥ २. २. ५६ ॥
उत्पातः-आकस्मिकं निमित्तम्, तेन ज्ञाप्ये-ज्ञाप्यमानेऽर्थे वर्तमानाद् गौरणान्नाम्नश्चतुर्थी भवति ।
"वाताय कपिला विद्य दातपायाऽतिलोहिनी ।
पीता वर्षाय विज्ञेया, दुभिक्षाय सिता भवेत् ॥ १ ॥" वातादयः स्वकारणेभ्य एवोत्पद्यन्ते, विद्यु ता तु ज्ञाप्यन्त इति तादर्थ्य नास्ति । उत्पातेनेति किम् ? राज्ञ इदं छत्रमायातं विद्धि राजानम् । षष्ठयपवादो योगः ।। ५६ ।।
न्या० स०--उत्पातेन । उत्क्रम्य प्रसिद्धं निमित्तं पततीति बाहुलकात् सोपसर्गादपि "वा ज्वलादि" [५. १. ६२.] इति णः । निमित्तं द्विधा-जनकं ज्ञापकं च,10 यत्र तादर्थ्यं तत्र जनक एव हेतुः, यथा-रन्धनाय स्थाली, अत्र तु तादर्थ्याभावात् ज्ञापक एव हेतुः । षष्ठयपवाद इति-ज्ञाप्यज्ञापकसंबन्धविवक्षायामित्यर्थः ।। २. २. ५६ ।।
श्लाघ-हनु-स्था-शपा प्रयोज्ये ॥ २. २. ६० ॥
ज्ञाप्य इत्यनुवर्तते, श्लाघादिभिर्धातुभिर्युक्ताद् ज्ञाप्ये प्रयोज्येऽर्थे वर्तमानाद् गौणान्नाम्नश्चतुर्थी भवति । मैत्राय श्लाघते, मैत्राय ह नुते, मैत्राय15 तिष्ठते, मैत्राय शपते, श्लाघा-ह्नव-स्थान-शपथान् कुर्वाण प्रात्मानं परं वा ज्ञाप्यं जानन्तं मैत्रं प्रयोजयतीत्यर्थः । प्रयोज्य इति किम् ? मैत्रायाऽऽत्मानं श्लाघते, मैत्राय शतं ह नुते; आत्मादौ मा भूत् । केचित् त्वप्रयोज्यो यो ज्ञाप्यो य आख्यायते तत्रैवेच्छन्ति ।। ६० ॥
न्या० स०---इलाघह नु०। “युजण संपर्चने' प्रयोज्यत इति “य एच्चातः"20[५. १. २८.] इति ये, प्रयोक्तु शक्य इति वा "शक्ताहे." [५. ४. ३५.] इति घ्यरिण "निप्राद् युजः शक्ये" [४. १. ११६.] इति गत्वाभावे-प्रयोज्यः। द्वितीयाप्राप्तौ वचनम् । मैत्राय तिष्ठते अत्र “ज्ञीप्सास्थेये" [ ३. ३. ६४. ] आत्मनेपदम्, स्थानेनात्मानं ज्ञापयतीत्यर्थः मैत्राय शपते "शप उपलम्भने" [३. ३. ३५.] आत्मनेपदम्, वाचा मात्रादिशरीरस्पर्शनेन नाहं जाने न मया कृतमिति मैत्रं ज्ञापयतीत्यर्थः । केचित् त्विति-भोज-25. शाकटायनाः। यस्तु मैत्रादिर्जानन् ज्ञाप्यते तत्र न भवतीति, तथा च अन्येषां ग्रन्थे