________________
[पा० २. सू० ५८.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ २५६
___ न्या० स०--प्रत्यनो० । प्राचार्य गणातीति-प्राचष्टे इत्यर्थः, अत्राचार्यमाचक्षाणमिति प्रतिपत्तव्यम्, अन्यथा द्वयङ्गविकलत्वं स्यात् ।। २. २. ५७ ।।
यद्वीक्ष्ये राधीक्षी ॥ २. २. ५८ ॥
वीक्ष्यं-विमतिपूर्वकं निरूपणीयम्, विप्रश्नविषय इति यावत्, तद्विषया क्रियापि वीक्ष्यम्, यत्संबन्धिनि वीक्ष्ये राध्यतिरीक्षतिश्च वर्तते तस्मिन् वर्तमानाद् 5 गौणान्नाम्नः सामर्थ्याद् राधीक्षिभ्यामेव युक्ताच्चतुर्थी भवति । मैत्राय राध्यति, मैत्रायेक्षते; तस्य दैवं पर्यालोचयतीत्यर्थः । स्त्रीभ्य ईक्षते-स्त्रीणामभिप्रायः कीदृश इति विमतिपूर्वकं निरूपयतीत्यर्थः । "ईक्षितव्यं परस्त्रीभ्यः स्वधर्मो रक्षसामयम्" परस्त्रीणामभिप्राये यत् संदेहादीक्षितव्यं-निरूपयितव्यं-किमेवं करोषि नवेति, तद् रक्षसां कुलधर्मो न दोषः । दैवे एवेक्ष्ये इच्छन्त्येके ।10 राधीक्ष्यर्थधातुयोगेऽपीच्छन्त्येके, मैत्राय राधयति, साधयति, पश्यति, जानीत इति चोदाहरन्ति । यद्ग्रहणं किम् ? मैत्रस्य शुभाशुभमीक्षते, शुभाऽशुभात् मा भूत्, मैत्रात् तु राधीक्षिभ्यां योगाभावादेव न भवति । वीक्ष्यग्रहणं किम् ? मैत्रमीक्षते । राधीक्ष्यर्थविषयाद् विप्रष्टव्यादिच्छत्यन्यः-लाभाय राध्यति, लाभाय राधयति, लाभाय साधयति, लाभायेक्षते, लाभाय पश्यति ।। ५८ ।। 15
न्या० स०--यद्वीक्ष्ये। विविधा-विशेषानुपलम्भादेकस्मिन् वस्तुनि सादृश्यादिनिमित्तादनेकपक्षालम्बनानवधारणात्मिका मति:-विमतिः, संदेहज्ञानमिति यावत्, तत्पूर्वक निरूपरणीयम् अदृष्टमिष्टानिष्टफलं पुण्यपापरूपम्, अप्रत्यक्ष पराभिप्रायादिकं वा, तस्यैव निरूपणाहत्वात् । पुनः स्पष्टयति-विप्रश्नविषय इति-विचारविषयो देवादिलाभालाभादिर्वा । क्रियाऽपीति-पर्यालोचनादिका। तस्य दैवमिति-शुभाशुभमित्यर्थः। 20
"ईक्षितव्यं परस्त्रीभ्यः, स्वधर्मो रक्षसामयम् ।
संक्रुध्यसि मृषा किं त्वं, दिक्षु मां मृगेक्षणे ! ।।१।।" दैवे एवेक्ष्ये इति-न त्वभिप्रायादावित्यर्थः । एके इति-शाकटायनाः । एके इतिचान्द्राः । राधिरपरपठितश्रादिणिगन्तो वा । साधिणिगन्त एव । राधीक्षिभ्यां योगाभावादिति-एवं तहि मैत्राय राध्यतीत्यादावपि संबन्धाभावान्न स्यात्, न-तत्र मैत्रेणेव25 सह राधीक्ष्योः संबन्धो विवक्षितोऽन्यस्याश्रुतत्वात् । अन्य इति-रत्नमतिबौद्धः ।। २.२.५८ ।।