________________
बृहद्वृत्ति-लघुन्याससंवलिते
२५८ ]
[पा० २. सू० ५६-५७.]
संपद्यते इति क्रियया सह सम्बन्धाद् गौणत्वाभावात् कथं मूत्रशब्दाच्चतुर्थी ?, उच्यते - एतत्सूत्रसामर्थ्यादेवात्र गौणमुख्यभावेन क्रियासंबन्धात् मूत्रस्य गौणत्वम्, तथाहि प्रथमं यवाग्वा सह क्रियायाः संबन्ध: पश्चान्मूत्रस्येति । गौणादिति व्यावृत्त्युदाहरणे तु मूत्रादेविशेष्यार्थं मूत्रादिकं प्रथमं क्रियया संबन्धनीयम्, यद्वा मूत्रायेति कोऽर्थः ? मूत्ररूपविकारसंबन्धित्वेन यवागूः संपद्यत इत्यर्थः । तद्विकाररूपमिति श्रत्र तस्य यवाग्वादेर्विकारस्तस्य 5 रूपं कर्मतापन्नमापद्यते-प्राप्नोति, मूत्रं कर्तृ, अकर्मकोऽपि पदिस्तदा तद्विकाररूपं मूत्रं कर्तृ आपद्यते सम्पद्यते इत्यर्थः, अत्र प्रथमायाः प्राप्तौ चतुर्थी । चैत्रस्य कल्पन्ते इत्यत्र चैत्रो धनादीनां स्वामी न विकार इति न भवति । मूत्रं संपद्यते यवाग्वा इति यवाग्वा अपगच्छदिदं मूत्रं संपद्यत इत्यपायः । चैत्राय शतं धारयतीति - "घृङ त् अवस्थाने” ध्रियतेतिष्ठति स्वरूपान्न प्रच्यवते शतं कर्तृ, तत् ध्रियमाणं प्रयुङ्क्त इति णिग्, अपरपठि-10 तश्चुरादौ वा । उत्तमरण धनिक इति-यो हि धनं प्रयुङ्क्त स लोके उत्तमत्वेन प्रसिद्धः, यस्तु गृह्णाति सोऽधमत्वेन, उत्तमाधमाभ्यां संबद्धमृणमपि तथैव व्यपदेष्टव्यमित्युत्तममृणं यस्येति कार्यन् ।। २. २. ५५ ।।
प्रत्याङः श्रु वाऽर्थिनि ॥। २. २. ५६ ॥
15
प्रत्याङ्भ्यां परेण शृणोतिना युक्तादर्थनिग्रभिलाषुके वर्तमानाद् । गौणान्नाम्नश्र्चतुर्थी भवति । द्विजाय गां प्रतिशृणोति, द्विजाय गामाशृणोति ; याचितोऽयाचितो वा प्रतिजानीते इत्यर्थः । प्रत्याङ इति किम् ? चैत्रस्य शृणोति । प्रथिनीति किम् ? द्विजाय गां प्रतिशृणोतीत्यत्र गवि मा भूत् ।। ५६ ।।
न्या० स०-- प्रत्याङः । श्रथनीति - श्रर्थयते इत्यर्थी - अभिलाषुकः, "अर्थरि 20 उपयाचने" इति पाठात् । याचितोऽयाचितो वेति - प्रधमत्वाद् याचमाने महत्त्वादयाचमानेऽपि केनाप्याकारादिना स्वाभिलाषं समर्पयति द्विजादौ प्रमिति तस्य प्रतिजानीतेप्रतिपद्यते, अभ्युपगच्छतीत्यर्थः ।। २. २. ५६ ।।
प्रत्यनोर्गुणाssख्यातरि ॥ २. २. ५७ ।।
प्रत्यनुभ्यां परेण गृणातिना योगे प्राख्यातरि वर्तमानाद् गौणान्नाम्न-25 चतुर्थी भवति । आचार्याय प्रतिगृणाति, आचार्यायानुगृणाति ; प्राचार्योक्तमनुवदति, प्रशंसन्तं वा प्रोत्साहयतीत्यर्थः । प्रत्यनोरिति किम् ? प्राचार्यं गृणाति । प्रख्यातरीति किम् ? प्राचार्याय मनसा प्रतिगृणातीत्यत्र मनसि मा भूत् ।। ५७ ।।