________________
[ पा० २. सू० ५४-५५.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
२५७
तादर्थ्ये ॥ २. २. ५४ ॥
किञ्चिद् वस्तु संपादयितुं यत् प्रवृत्तं तत् तदर्थम्, तस्य भावे तादर्थ्ये— संबन्धविशेषे द्योत्ये गौरणान्नाम्नः षष्ठ्यपवादश्चतुर्थी भवति । यूपाय दारु, कुण्डलाय हिरण्यम्, रन्धनाय स्थाली, अवहननायोलूखलम् ।। ५४ ।।
न्या० स० -- तादर्थ्ये । यूपाय दारु प्रत्र यूपादिहेतुभूतस्य दार्वादेर्हेतुतृतीया न, 5 अगौरणत्वात् ।। २. २. ५४ ।।
रुचिकृप्यर्थधारिभिः प्रेयविकारोत्तमर्णेषु ॥ २. २. ५५ ।।
रुच्यर्थेः कृप्यर्थैर्धारिणा च धातुना योगे यथाक्रमं प्रेये विकारे उत्तमर्णे च वर्तमानाद् गौणान्नाम्नश्वतुर्थी भवति, वचनसाम्यं यथासंख्यार्थम् ; बहुवचनं तु एक-द्वि-बहाविति यथासंख्याऽभावार्थम् । रुच्यर्थेः प्रेये - प्रीयमाणे - जिनदत्ताय 10 रोचते धर्मः, गुरुदत्ताय स्वदते दधि; तस्याभिलाषमुत्पादयतीत्यर्थः । प्रेय इति किम् ? चैत्राय रोचते मोदको माधुर्येण, माधुर्यशब्दात् न भवति । प्रेयसंबन्धादभिलाषकरणार्थस्य रुचेर्ग्रहणम्, तेनेह न भवति - सर्वेषामेतद् रोचते, कथं वा तवेति, प्रतिभातीत्यर्थः । कथं रोचते मम घृतं सह मुद्गैः शालयो दधिशरं कुकुराश्च ?, घृतमेव ममापि रोचते शृतशीतं च सशर्करं पयः ?, 15 संबन्धमात्रविवक्षायां षष्ठयव भविष्यति । कृप्यर्थैर्विकारे - मूत्राय कल्पते यवागूः, उच्चाराय संपद्यते यवान्नम्, श्लेष्मरणे जायते दधि, तद्विकाररूपमापद्यत इत्यर्थः । विकार इति किम् ? चैत्रस्य कल्पन्ते धनानि संपद्यन्ते शालयः । गौणादित्येव - मूत्रमिदं संपद्यते यवागूः, उच्चारोऽयं संपद्यते यवान्नम्, शृङ्गाच्छरो जायते, गोमयाद् वृश्चिकः प्रभवति, मूत्रं संपद्यते यवाग्वाः ; 20 यवाग्वा इति च पञ्चमी अपायविवक्षायाम् । धारिणोत्तमर्णे - चैत्राय शतं धारयति । उत्तमर्ण इति किम् ? शतशब्दान्न भवति । उत्तमर्णो
धनिकः ।। ५५ ।
न्या० स० -- रुचि - क्लृप्यर्थ० । सम्बन्धमात्रेति श्रत्र सत्यपि प्रेयत्वे पेयता न विवक्षिता, अपि तु तत्क्रियासंबन्धमात्रमिति न चतुर्थी । मूत्राय कल्पते यवागूः यवागू: 25 कर्त्री संपद्यते, किं संपद्यते ? मूत्र मूत्ररूपमित्यर्थः । ननु मूत्र - यवागूशब्दयोर्द्वयोरपि