________________
२५६ ]
बृहवृत्ति-लघुन्याससंवलिते
[पा० २. सू० ५२-५३.]
न्या० स०-समो ज्ञो० । संजानीते इति-“सम्प्रतेरस्मृतौ" [३. ३. ६६.] इत्या- । त्मनेपदम् ।। २. २. ५१ ॥
दामः संप्रदामेऽधयं आत्मने च ॥ २. २. ५२ ॥
संपूर्वस्य दामः संप्रदानेऽधर्म्यरूपे वर्तमानान्नाम्नस्तृतीया भवति, तत्संनियोगे च दाम आत्मनेपदं भवति । दास्या संप्रयच्छते, वृषल्या संप्रयच्छते, 5 कामुकः सन् द्रव्यं दास्यै ददातीत्यर्थः । दाम इति किम् ? दास्य संददाति । संप्रदान इति किम् ? द्रव्यं वृषल्या संप्रयच्छते, कर्मणि मा भूत् । अधर्म्य इति किम् ? पत्न्यै संप्रयच्छति । सम इत्येव-दास्यै प्रयच्छति । इह संपूर्वस्य दामः प्रशब्दव्यवधानमन्तरेण प्रयोगाऽभावात् तद्वयवधानेऽपि भवति ।। ५२ ।।
10
न्या० स०--दामः सम्प्र० । नन्वनेन ब्राह्मणेन दानं प्रवृत्तमित्यादिवत् सम्प्रदानस्य करणत्वविवक्षायां 'दास्या संप्रयच्छते इत्यादौ तृतीयोत्पत्तेः किमर्थमिदमारभ्यते, यद्वा सहार्थे इयं तृतीया, तथाहि-दास्यै स्वयं धनं ददाति, साप्यात्मानं तस्मै ददातीति, दानपूर्वके सम्भोगे दाम् वर्तते, दत्त्वा दास्या सह सम्भुङक्त इति, एवं चात्र क्रियाव्यतिहारोपपत्तेस्तद्वारेणैवात्मनेपदम्, अत्रोच्यते-एवं हि धात्वन्तरेऽपि विनापि समुपसर्गेणा-15 धर्म्यत्वाभावेऽपि स्यात्, द्रव्यं वृषल्या सम्प्रयच्छत इत्यत्रापि सम्प्रदानविवक्षायां चतुर्थी स्यात्, अत इह चतुर्थीप्रत्युदाहरणेषु च तृतीया मा भूदित्येवमर्थमिदं वक्तव्यम्, विवक्षयापि न सिध्यति, विवक्षानियमो हि विना वचनेन दुरधिगम इतीदमारभ्यत इति । ननु सम इति परदिग्योगलक्षणा पञ्चमी, ततश्च “पञ्चम्या निर्दिष्टे परस्य" [७. ४. १०४. ] तच्चानन्तरस्येति प्रशब्दस्य व्यवधाने न प्राप्नोतीत्याह-इह सम्पूर्वस्येति । यद्वा सम इति पूर्वत्र 20 पञ्चम्यन्तमपीह लक्ष्यवशात् षष्ठ्यन्तं विज्ञायते, तत्र व्यवधानेऽपि समा द्योतमानार्थत्वाद् दामः सम्बन्धोपपत्तेर्भवत्येव विधिः ।। २. २. ५२ ।।
चतुर्थी ॥२. २. ५३ ॥
संप्रदाने वर्तमानाद् गौणानाम्नो डे-भ्यां-भ्यस्-लक्षणक-द्वि-बहौ। यथासंख्यं चतुर्थी विभक्तिर्भवति । द्विजाय गां ददाति, शिष्याभ्यां धर्ममुप-25 दिशति, मुनिभ्यो भिक्षां ददाति, पत्ये शेते, राज्ञे विज्ञपयति, राज्ञे दण्डं ददाति । संप्रदान इत्येव-अजां नयति ग्रामम् ।। ५३ ।।