________________
२५४ ]
बृहद्वत्ति-लघुन्याससंवलिते
[पा० २. सू० ४६.]
इति किम् ? अद्य पुष्यं विद्धि । 'स्थाल्या पच्यते' इत्यादिवत् प्राधारस्य । करणविवक्षायां तृतीया सिध्यति संबन्धविवक्षायां तु षष्ठी मा भूदिति वचनम् ॥ ४८ ॥
न्या० स०--काले भा०। स्वार्थिकप्रत्यया नातिवर्तन्ते प्रकृतिलिङ्गवचनानीति कालेऽपि नक्षत्रशब्दो नक्षत्रलिङ्गसंख्य एव । पुष्येण पायसमश्नीयात् पुष्येण चन्द्रयुक्त - 5 नेत्यादिप्रक्रियायां पुष्यशब्दः काले वर्तते, पयसि संस्कृतं भक्ष्यं “संस्कृते भक्ष्ये" [ ६. २. १४०. ] अण, पयसा संस्कृतमिति तु कृते तृतीयाधिकारनिवेशितेन "संस्कृते" [ ६. ४. ३.] इति सूत्रेण इकणेव भवति । अध्वनि मा भूदिति-अत्र विशिष्टतारकावछिन्न क्षेत्रे पुष्य-मघाशब्दौ वर्तेते, न काले इति। चित्रा माणविका इति-यद्यपि चित्राशब्दो माणविकायां वर्तमानः कालमप्युपाधित्वेनोपादत्ते, यतश्चित्रासु जाता या सा चित्रा10 इति विशेषणत्वेन प्रतीयमानत्वात् कालेऽपि वृत्तिः संभाव्यते, तथापि तत्र कालस्य गौणत्वात् गौण-मुख्ययोश्च मुख्य कार्यसंप्रत्ययात् न भवति। स्वावच्छिन्ने काले
पुष्पविशिष्ट: कालः, कोऽर्थः ?-यत्र काले तिलाः पुष्यन्ति तिलानां छेदश्च भवतीत्यर्थः । "तिलपुष्पेषु यत् क्षीरं, तिलच्छेदेषु यद् दधि ।
15 तिलवापेषु यत् तोयं, तेन वृद्धो न जीवति" ॥ १ ॥ इति सुश्रुतमतम्, सारोद्धारमते पूर्वाद्धं तदेव, उत्तरार्द्ध तु
"माघमासे च यद् भुक्त, तेन वृद्धो विनश्यति ।"
कोऽर्थः ? पुनर्नवो भवति ।। २. २. ४८. ।। प्रसितोत्सुका-अवबधैः ॥ २. २. ४६ ॥
एतैर्युक्तादाधारे वर्तमानाद् गौणानाम्नस्तृतीया वा भवति । केशैः प्रसितः, केशेषु प्रसितः; प्रकर्षण सितो बद्धः प्रसितः, नित्यप्रसक्त इत्यर्थः; गृहेणोत्सुकः, गृहे उत्सुकः; केशैरवबद्धः, केशेष्ववबद्धः । आधार इत्येव-मनसा प्रसितः, मनसोत्सुकः, मनसाऽवबद्धः । करणतृतीयाया विकल्पो मा भूत् । । अवबद्धोत्सुकशब्दसाहचर्यात् तदर्थ एव प्रसितशब्दोऽत्र गृह्यते । पूर्ववत् षष्ठी-25 बाधनार्थं वचनम् । बहुवचनमेक-द्वि-बहाविति यथासंख्यनिवृत्त्यर्थम् ॥ ४६ ।।
न्या० स०--प्रसितो०। प्रसितशब्दोऽयं गुणवचनोऽप्यस्ति-प्रकृष्टःसितः शुक्ल इति, क्रियावचनोऽप्यस्ति-यः स्यतेः सिनोतेर्वा भवतीति, तत्रोत्सुकाऽवबद्धशब्दसाहचर्यात्
20