________________
[पा० २. सू० ४७-४८.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ २५३
10
गोत्रेण काश्यपः काश्यपो माठर इति च गोत्रभेदः, तेन गोत्रमानाख्यायते-काश्यप इति । भेदग्रहणं किमिति-यदि भेदग्रहणं न क्रियते तदा 'येन तद्वदाख्या' इत्युच्यमाने यष्टी: प्रवेशयेत्यत्रैव स्यात्, अत्र हि यष्ट्यादिना तद्वानुपचारेणाख्यायते, अक्षणा काण इत्यादौ च न स्यात्, नह्यत्राक्ष्यादिशब्देन तद्वान्निदिश्यते । अक्षि कारणं पश्येति-काणशब्देन हि अक्षिभेदेनाक्ष्याख्यायते, न तद्वान् चैत्रादिः । षष्ठीनिवृत्त्यर्थं तु वचनमिति-तथापि न 5 विधेयमेतत् सूत्रं, मा भूत् कर्बादौ तृतीया, इत्थंभूतलक्षणत्वादक्ष्यादेर्भविष्यति, यदाह
"इत्थंभूतस्य काणस्य, लक्षणं ह्यक्षि बुध्यते ।
ततस्तृतीया तेनैव, तत्र सूत्रेण सिध्यति ।। १ ।। अत्रोच्यते-अध्यादेरित्थंभूतस्य काणादिलक्ष्यस्य भेदाभावाल्लक्षणत्वानुपपत्तिः, यदाह उद्द्योतकर:
"लक्ष्यलक्षणभावो हि, भेदे सत्युपपद्यते । यथा छात्र-कमण्डल्वोश्छात्रोपाध्याययोर्यथा ।। १ ।। लक्षणादातपत्रादेस्तत्र लक्ष्यं तु भिद्यते । इह त्वेवमसंभाव्यमभेदादक्षि-काणयोः ।। २ ॥ यत् तत् कारणं तदेवाक्षि, लक्ष्यते तत्र तेन किम् ?।
तत् काणः पुरुष इत्येतत् कथं तूपचारतः ।। ३ ।।" २. २. ४६ ।।। कृताः ॥ २. २. ४७ ॥
कृत इत्येवंप्रकारैनिषेधार्थैर्युक्ताद् गौणान्नाम्नस्तृतीया भवति । कृतं तेन, भवतु तेन, अलमतिप्रसङ्गेन, किं गतेन । कृत, कृतम्, भवतु, अलम् किम् ; एवंप्रकाराः कृतादयः ।। ४७ ।।।
20 काले भानवाsधारे ॥२. २. ४८ ॥
काले वर्तमानान्नक्षत्रवाचिनो गौणान्नाम्न प्राधारे तृतीया वा भवति । पुष्येण पायसमश्नीयात्, पुष्ये पायसमश्नीयात् ; मघाभिः पललौदनम्, मघासु पललौदनम् । काल इति किम् ?, पुष्येऽर्कः, मघासु ग्रहः, अध्वनि मा भूत् । चित्रासु जाता चित्रा माणविका, तस्यां-चित्रायामास्ते, अत्र माणविकायां मा25 भूत् । भादिति किम् ? "तिलपुष्पेषु यत् क्षीरं, तिलच्छेदेषु यद् दधि ।” अत्र तिलषुष्प-तिलच्छेदशब्दौ स्वाऽवच्छिन्ने काले वर्तेते इति प्राप्नोति । आधार
15