________________
२५२ ]
बृहद्वृत्ति - लघुन्याससंवलिते
निर्दिश्यते, उच्यते - विवक्षितयोगाभावात्, सहैव दशभिरित्यत्र वहनमात्रं विवक्षितं तद् गर्दभ्या एव न तत्पुत्राणां यथा पुत्रेण सहागत इत्यागमनमुभयोरपीति तुल्ययोगाद् विद्यमानता भिन्ना । न्यक्षेण सामस्त्येनेत्यर्थः ।। २. २. ४५ ।।
[ पा० २. सू०४६. ]
यभेदैस्तद्वदाख्या ॥ २. २.४६ ॥
यस्य-भेदिनः प्रकारवतोऽर्थस्य, भेदैः प्रकारैविशेषैः, तद्वतः - तत्प्रकार- 5 वदर्थयुक्तस्य, प्राख्या - निर्देशो भवति, तद्वाचिनो गौणान्नाम्नस्तृतीया भवति । अक्ष्णा काणः, पादेन खञ्ज:, हस्तेन कुरिणः, शिरसा खल्वाट:, प्रकृत्या दर्शनीयः, प्रायेण वैयाकरणः, गोत्रेण काश्यपः, जात्या ब्राह्मणः, जात्या सुशीलः, स्वभावेनोदारः, निसर्गेण प्राज्ञः, वर्णेन गौरः, स्पर्शेन शीतः, वचनेन मृदु:, रसेन स्वादुः, मुखेन सुरूपः, उरसा विशालः, बाहुभ्यां दृढः – सर्वत्र 10 पुरुषस्तद्वान् संबध्यते । यद्ग्रहणं प्रकृतिनिर्देशार्थम्, तत इत्याक्षेपात् । भेदग्रहणं किम् ? यष्टीः प्रवेशय, कुन्तान् प्रवेशय । तद्वद्ग्रहणं किम् ? अक्षि काणं पश्य । आख्याग्र हरणं प्रसिद्धिपरिग्रहार्थम्, तेनाऽक्ष्णां दीर्घ इति न भवति । कृत-भवत्यादिक्रियाऽध्याहारेण कर्तृ - कररणयोस्तृतीया सिद्धैव, संबन्धषष्ठीनिवृत्त्यर्थं तु वचनम् ।। ४६ ।।
15
यस्य
न्या० स०-- यद्भदैः । श्रवयवावयविलक्षणसंबन्धे षष्ठीप्राप्तौ वचनम् । भेदिनश्चक्षुरादेः, भेदैः-कारणत्वादिभिः, तद्वतः चनुरादिमतः पुरुषादेस्तत्प्रकारवदर्थयुक्तस्य, कोऽर्थः ? सः प्रकारवान् प्रक्ष्यादिरर्थः तेन युक्तस्य चैत्रादेः, प्राख्या -निर्देशो भवति तद्वाचिन प्रक्ष्यादिवाचिन:, तृतीया भवतीत्यर्थः । अक्षरणा कारण : अक्षि कारणं चाकारणं च भवतीति कारणत्वभेदेन तद्वांश्चैत्रादिनिदिश्यते । शिरसा खल्वाटः खलन्ति - अपगच्छन्ति 20 केशा अस्मादिति "कपाट० " [ उणा० १४८. ] इत्यादिशब्दात् साधुः । प्रकृत्या दर्शनीयः प्रकृतिः - स्वभावः, तद्भ ेदः - दर्शनोयत्वम्, स्वभावो हि दर्शनीयत्वमदर्शनीयत्वं च भवति, तद्भ ेदेन दर्शनीय इति प्रकृतिमानाख्यायते । प्रतीति " तन्व्यधि० " [ ५. १. ६४.] इति
- प्रायः, तद्भ ेदो वैयाकरणत्वं तार्किकत्वं चेति तद्भदेन वैयाकरण इति तद्वान् निर्दिश्यते । ननु च 'प्रकृत्या दर्शनीयः, प्रायेण वैयाकरण:' इति युक्तः प्रयोगः, दर्शनी - 29 यत्वं हि प्राकृतं वैकृतं चास्ति, वैयाकरणत्वं च प्रायिकमन्यच्च तत्रेतरव्युदासार्थं प्रकृत्या प्रायेणेति चार्थवं कारण इत्यादिप्रयोगे त्वक्ष्णेत्यादिरव्यभिचारेण प्रतीतेरयुक्तः प्रयोगोऽर्थस्य गतत्वात्, उच्यते - लोकोऽत्र पर्यनुयोक्तव्यः योऽर्थवतोऽनर्थकतामनपेक्ष्य प्रतीतेऽपि शब्दान् प्रयुङ्क्त े, लोके च न सर्व एवं सूक्ष्मेक्षिकया शब्दान् प्रयुङ्क्त े यद्वा सूक्ष्मेक्षिकया प्रयोगेऽपि उपचरितार्थनिवृत्तिरक्ष्णेत्यादिप्रयोगे प्रयोजनं - सत्यमयं कारणो न तूपचारेणेति 130
,