________________
२४८ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० २. सू० ४२-४३.]
“गतेर्नवानाप्ते" [ २. २. ६३. ] इत्यनेन ततश्चतुर्थी स्यात्; यदा गन्तेत्यत्र तृच् तदा । मतान्तरेण ग्रामशब्दाच्चतुर्थी, स्वमते तु “कर्मणि कृतः" [२. २. ८३.] इत्यनेन परत्वात् षष्ठ्ये व भवति, यदा तु तृन् तदा "तृन्नुदन्त." [२. २. ६०.] इति षष्ठीनिषधात् स्वमतेऽपि चतुर्थी । २. २. ४१ ।।।
काला-हवनोाप्ती॥ २. २. ४२ ॥
स्वेन संबन्धिना द्रव्य-गुण-क्रियारूपेण कार्येन संबन्धो व्याप्तिः, अत्यन्तसंयोग इति यावत्, तस्यां द्योत्यायां कालेऽध्वनि च वर्तमानाद् गौणान्नाम्नो द्वितीया भवति । मासं गुडधानाः, मासं कल्याणी, मासमधीते; क्रोशं पर्वतः, क्रोशं कुटिला नदी, क्रोशमधीते । काला-ऽध्वनोरिति किम् ?, स्थाल्यां पचति । व्याप्ताविति किम् ? मासस्य मासे वा द्वयहं10 गुडधानाः, मासस्य मासे वा एकरात्रं कल्याणी, मासस्य मासे वा द्विरधीते; क्रोशस्य क्रोशे वा एकदेशे पर्वतः, क्रोशस्य क्रोशे वा एकदेशे कुटिला नदी, क्रोशस्य क्रोशे वा एकदेशेऽधीते । षष्ठ्या सप्तम्या वा अयमपवादः, तेन मासमधीते, क्रोशमधीते इत्यकर्मकत्वे इदमुदाहरणम्, कर्मत्वे "कर्मणि" [२. २. ४०.] इत्येव द्वितीया सिद्धा। भावादपीच्छन्त्यन्ये-गोदोहं वक्रः,15 गोदोहं बुद्बुदाः ।। ४२ ।।
न्या० स०-काला-ऽध्वनो। स्वेन संबन्धिनेत्यत्र "द्विहेतो." [२. २. ८७.] इत्यनेन विकल्पेन षष्ठीविधानात कर्तरि ततीया। कात्स्य॑नेति सहार्थ ततीया। संबन्ध इति-पत्र काला-ऽध्वनो: कर्मतापन्नयोरिति गम्यम् । मासस्य मासे या द्वयहं गुडधाना इति-अत्र द्वयहशब्दादनेन द्वितीया, मासशब्दात् तु व्याप्त रभावान्न, एवमुत्तरेष्वपि ।20 क्रोशस्य क्रोशे वा एकदेश इति-अत्रैकदेशशब्दाद् व्याप्त: संभवेऽपि अध्वनोऽभावादनेन द्वितीया न । अकर्मकत्व इदमिति-अयमर्थः-यदा शास्त्रादिकर्मणा इङ धातुः सकर्मको विवक्ष्यते तदा "कालाऽध्व-भाव-देशं वा०" [ २. २. २३. ] इत्यस्य प्राप्तिरेव नास्ति, तत्राऽकर्मणामिति भणनात्, यदा त्वविवक्षितकर्मत्वेनाकर्मको धातुर्विवक्ष्यते तदा "काला-ध्व-भाव-देशं वा०" [ २. २. २३. ] इत्यस्य प्राप्तावप्यकर्मसंज्ञापक्ष प्राश्रीयते,25 कर्मत्वपक्षे हि "कर्मणि" [२. २. ४०.] इत्येव सिद्धेः ।। २. २. ४२ ।।
सिद्धौ तुतीया ॥२. २. ४३ ॥ सिद्धौ-क्रियाफलनिष्पत्तौ, द्योत्यायां कालाऽध्ववाचिनो गौणानाम्न: