________________
[पा० २. सू० ४१.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ २४७
अथो पचति शोभनं ते भार्या, अत्र “सपूर्वात् प्रथमान्ताद्वा" [२. १. ३२.] इति विकल्पो न भवति । द्वितीयार्थं च वचनं न कर्मसंज्ञार्थं, तेन कृद्योगे कर्मनिमित्ता षष्ठी न भवति; अोदनस्य शोभनं पक्ता, सुखं स्थाता, कष्टं स्थाता, चिरमासिता, तथा मन्दं गन्ता ग्रामायेत्यादौ चतुर्थी न भवति ।। ४१ ॥
5 न्या० स०-क्रियावि० । प्रत्यासत्तेः क्रियाविशेषणं यत् समानाधिकरणं तस्मादेव द्वितीया। नन्विदं सूत्रं प्रथमाधिकारे क्रियतां, प्रथमयाऽपि सर्वाण्यपि रूपाणि सेत्स्यन्ति, उच्यते-पुण्यवांस्त्वमथो पचति शोभनं ते भार्येत्यादौ विकल्पः प्राप्नोति । ननु रूपाधुपाधिवत् क्रिया द्रव्यस्यैवोपाधिन चोपाधेरुपाध्यन्तरसम्भवः, निर्गुणा गुणाः क्रिया चेति वचनात्, तत् कथं क्रियाया विशेषणसम्भवः ? सत्यमेतत्-किन्तु सजातीयस्य 10 द्रव्योपाधेरपेक्षयोत्कर्षो दृश्यते, यथा-शुक्लः, शुक्लतरः, शुक्लतम इति, रूप-रसादीनां कला इति प्रविभागप्रचयापचयाभ्यामुत्कर्षापकर्षवृत्तित्वं भवति, तत् तूपाध्यन्तरयोगात्, तदाहुस्तद्विदः
"भवेद द्विगुगणमाधुर्यमनन्तगुणकालकन् ।
द्रव्यं चतुर्गुणोद्भूतगन्धमाम्रफलादिकम् ।। १ ।।" यथा च रूपादीनां तथा क्रियाणामपि परस्परापेक्षया विशेषसम्भवाच्छोभनं पचतीत्येवं विशेषणयोग: स्यात, कथमन्यथा पापच्यते पतितरामित्यादौ तासामेकरूपत्वाद् यङादिप्रत्ययविधिः स्यात् । ननु चासत्त्वभूता क्रिया, तदुपाधिस्तु सुतरामसत्त्वभूतः, तत् कथं सत्त्वाभिधायिना नाम्ना प्रतिपाद्यत इति, उच्यते-धातुप्रकृतिवाच्याऽसत्त्वभूतैव क्रिया यथा क्रियाशब्देन नामरूपेण सत्त्वरूपापन्ना प्रतिपाद्यते तथोपाधिरपि20 सत्त्वरूपान्नः शोभनादिशब्देनेत्यदोषः। मन्दं गन्तेति-मन्दशब्दस्य हि कर्मत्वे
15
25
१. कथं पुनरसत्त्वभूतोऽर्थः सत्त्वरूपेण प्रकाश्यत इति चेत् ? स्ववाचकप्रकाशबलादिति ब्रमः, स्वशक्तिरियं-वाचकानां यदसत्त्वं सत्त्वरूपतया प्रकाशयन्ति; पदार्थस्य वा स्वरूपमिदमीदृशं यद् विशिष्टेन वाचकेनाभिधीयमानोऽसत्त्वरूपतया प्रकाशते, तदुक्तम्
"व्यपदेशे पदार्थानामन्या सत्तौपचारिकी । सर्वावस्थासु सर्वेषामात्मरूपनिशिनी ।।१॥ स्फटिकादि यथा द्रव्यं, भिन्नरूपैरुपाश्रयैः ।।
स्वशक्तियोगात् सम्बद्धं, ताद्रूप्येणैव गम्यते ।। २ ।। इति ।। ४१ ॥
30