________________
२४६ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० २. सू० ४१.]
कर्मशक्तिरनभिहिताऽपि प्रधान जिक्रियाविषयाऽऽत्मनेपदेनाभिहितेति तद्वत् प्रकाशमाना द्वितीयोत्पत्तौ निमित्तं न भवति, यथा च ग्रामो गन्तुमिष्यते देवदत्तेनेति ग्रामस्य प्रधानेषिक्रियाविषयां कर्मशक्तिमात्मनेपदेनाभिदधताऽप्रधानमभिक्रियाविषयाऽपि कर्मशक्तिरुपभक्त ति तदभिधानाय द्वितीयाचतुथ्यौं न भवत इति । इह च गौणत्वं क्रियाऽपेक्षं, तेनाऽजां नयति ग्राममित्यादौ 5 ग्रामाद्यपेक्षयाऽजादेः प्रधानत्वेऽपि गौणत्वं न विहन्यत इति । इह तु-कृतपूर्वी कट, भुक्तपूर्वी प्रोदनम्, व्याकरणं सूत्रयतीत्यादौ यः कृतादिभिः कटादेरभिसम्बन्धः स प्रत्ययेऽर्थान्तराऽभिधायिन्युत्पन्ने कृतादीनामुपसर्जनत्वानिवर्तते, क्रियया तु सह सम्बन्धोऽस्तीति व्याप्यत्वाद् द्वितीया भवति ।। ४० ।।
न्या० स०--कर्मणि । शब्दप्रयोगायोगादिति-अर्थप्रत्यायनाय हि लोके शब्द:10 प्रयुज्यते, स चार्थो यदा शब्दान्तरेण प्रतिपादितः स्यात् तदा प्रयोजनाभावाच्छब्दान्तरप्रयोगो न कर्तव्यः । अनियताधाराणामिति-नहि भीष्मत्वादीनां कट एवाधारः किं त्वन्येऽपि। न केवला प्रकृतिरिति-नापदं प्रयुञ्जोतेति न्यायात् । तदेकयोग-क्षेमत्वादितिअलब्धलाभो योगः, लब्धार्थपरिरक्षणं क्षेमः, तस्य देवदत्तादेर्यावेको योग-क्षेमौ तयोर्भावः । कर्मादिसामान्यमिति-करणादिक्रियामात्रयोग्यमित्यर्थः । तत्रापीति-सामान्यकर्माभि-15 धानेऽपि। अन्तर्भूत इति-तत्राभिहितोऽपि कश्चिन्नान्तर्भवति, यथा-राज्ञः पुरुष इत्यत्र वाक्ये षष्ठया सम्बन्धोऽभिधीयते, न तु क्वचिदन्तर्भावमुपयातीति द्वयोरुपादानम् । तत्रेति-कर्मादिशक्तियुक्त द्रव्य इत्यर्थः। स्वरूपकालभिन्नायामिति-कृताहृतेत्यादिक्रियापेक्षया स्वरूपेण कालेन च पश्याहरेत्यादिका क्रिया भिन्ना। सव्यापारतयेतिकारकत्वेनेत्यर्थः। यथायथमिति-या यस्य स्वा इत्यर्थः। प्रधानाप्रधान क्रियेति-20 एकस्मिन् वाक्ये युगपदनेकप्रधानक्रियाणामसम्भवात् प्रधानाप्रधानक्रियाविषयैवानेका शक्तिरिति तत्क्रियापेक्षया शक्त रपि गुणप्रधानभावो भवतीत्यत आह-प्रधानशक्त्यनुरोधादित्यादि । अत्रैवोदाहरणान्तरं दर्शयति-यथा च ग्रामो गन्तुमिष्यत इति । ननु गौणान्नाम्नः कर्मणि द्वितीयेत्युक्तम्, अजां नयति ग्राममित्यादौ तु ग्रामाद्यपेक्षया अजादेः प्रधानत्वान्न ततो द्वितीया प्राप्नोतीत्याह-इह चेति । क्रियापेक्षमिति-आख्यातपंदेना-25 समानाधिकरणं गौणमिति गौणत्वस्य द्वयोरपि कर्मणोर्भावात् क्रियापेक्षं गौणत्वमाश्रितम् । न विहन्यत इति-तेन गौणत्वाजाशब्दादपि द्वितीया सिद्धा ।। २. २. ४० ।।
क्रियाविशेषणात् ॥ २. २. ४१ ॥
क्रियाया यद् विशेषणं तद्वाचिनो गौणान्नाम्नो द्वितीया भवति । मृदु पचति, स्तोकं पचति, मन्दं गच्छति, सुखं शेते, दुःखं जीवति, सयुक्तिकं भाषते,30