________________
[पा० २. सू० ४०.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ २४५
विशेषणविशिष्टस्य कटस्य करोतिक्रियया व्याप्यत्वात् कर्मत्वम्, तच्च कटशब्दादेवोत्पन्नया द्वितीययाऽभिहितमिति भीष्मादिभ्यो द्वितीया न प्राप्नोति, यथा-कृतः कटो भीष्म उदारो दर्शनीय इति करोतेः क्त-प्रत्ययेनेति, नैवम्भीष्मत्वादियुक्तस्य कटस्य सम्बन्धिकर्मत्वं प्रतिपाद्यम्, न च जातिशब्दाः सम्भविनोऽपि गुणान् प्रतिपादयितुं समर्था इति तत्प्रतिपादनाय यथा भीष्मा- 5 दिशब्दप्रयोगो भवति तथा द्वितीयाऽपि तेभ्यो भविष्यति, नहि सामान्यवाचिनः कटशब्दादुत्पद्यमाना द्वितीया भीष्मादीनामनियताधाराणां गुणानां कर्मत्वभिधातुं शक्नोति; यदि वा कटोऽपि कर्म भोष्मादयोऽपि, यथैव ह्ययं कटं करोत्येवं तद्गतान् भीष्मादोनपि, तत्र यद् यत् करोतिना व्याप्तुमिष्टं तत् सर्वं द्रव्यं गुणश्च कर्मेति सर्वेषां पृथक् कर्मत्वे प्रत्येकं द्वितीया, पश्चात् त्वेकवाक्यतया10 विशेषणविशेष्यभाव इति; यदिवा द्रव्यस्य क्रियासु साक्षादुपयोगादस्तु कटस्यैव कर्मत्वम्, भीष्मादीनां तु न केवला प्रकृतिः प्रयोक्तव्या इति नियमाद् अविभक्तिकानामप्रयोगार्हत्वादेकविभक्तिमन्तरेण च सामानाधिकरण्यविशेषणत्वायोगाद्, यथा-ईश्वरसुहृदां स्वयं निर्धनत्वेऽपि तदेकयोगक्षेमत्वात् तद्धनेनैव फलभाक्त्वं भवत्येवमकर्मणामपि कटकर्मत्वेनैव द्वितीया भविष्यति ; 15 कृतः कटो भीष्म उदारो दर्शनीय इत्यादौ तु करोतेरुत्पद्यमानः क्तो यस्य यस्य तया क्रियया सम्बन्धस्तस्य तस्य साकल्येन कर्मत्वमभिदधातीति क्वचिदपि द्वितीया न भवति; कथं तहि 'कृतं पश्य, आहृतमाहर, क; क्रियते, दात्रेण लुनाति, दानीयाय ददाति, भीमाद् बिभेति, प्रासादे प्रसीदति, शयने शेते,' इत्यादिषु क्तादिभिरभिहितेषु कर्मादिषु द्वितीयादयो भवन्ति ?, उच्यते-20 कर्मादिसामान्यं कृद्भिरभिहितं, तत्राप्यभिहितः सोऽर्थोऽन्तर्भूतो नामार्थः सम्पन्न इति कर्मादिशक्तियुक्त द्रव्यमेव तदन्तैः शब्दरभिधीयते, यथेदं कर्म, इदं करणमिति, तत्र याऽसौ स्वरूप-कालभिन्नायां क्रियायां सव्यापारतया कर्मादिरूपता तदभिधानाय यथायथं द्वितीयादयो भवन्ति, यत्र पुनरेकद्रव्याधारा प्रधानाऽप्रधानक्रियाविषयाऽनेका शक्तिर्भवति तत्र प्रधानक्रियाविषयायां शक्तौ25 प्रत्ययैरभिहितायामप्रधानक्रियाविषया शक्तिः प्रधानशक्त्यनुरोधादभिहितवत् प्रकाशमाना विभक्त्युत्पत्तौ निमित्तं न भवति, यथौदनः पक्त्वा भुज्यते देवदत्तेनेति भावाऽभिधायिना क्त्वाप्रत्ययेनौदनाधिकरणाप्रधानपचिक्रियाविषया