________________
२४४ ]
बृहद्वृत्तिलघुन्याससंवलिते
[पा० २. सू० ३६-४०.]
जिनजन्मोत्सवमन्वागच्छन् सुराः, देवेन्द्रोपपाताऽध्ययनमन्वागच्छद् देवेन्द्रः, तेन । हेतुनेत्यर्थः; पर्वतमन्ववसिता सेना, नदीमन्ववसिता पुरी; पर्वतनदीभ्यां सह सम्बद्धेत्यर्थः अन्ये तु तृतीयार्थमात्र इच्छन्ति-पर्वतमन्ववसिता सेना, पर्वतेन क; करणेन वा कृतान्तेत्यर्थः । तृतीयाऽपवादो योगः ।। ३८ ।।
न्या० स०--हेतुस। हेतु द्विविधः- जनको ज्ञापकश्च, तत्र ज्ञापकस्य लक्षणत्वा: 5 "भागिनि च०" [ २. २. ३७. ] इति सूत्रेण द्वितीया सिद्धति जनक एवेह गृह्यत इत्याहहेतुर्जनक इति । तुल्ययोग इति-ननु तुल्ययोगाद्यर्थे सहादय एव शब्दा वर्तन्ते न पर्वतादिशब्दा इति कथं ततो द्वितीयेत्य'ह-तद्विषयोऽपोति । देवेन्द्रमुपपातयति कर्मणोऽणिदेवेन्द्रोपपातम् । अवसितेति-अवसिनोति स्म, कर्मकर्तरि वाऽवसीयते स्म “गत्यर्थ." [५. १. ११.] इति क्तः । तुल्ययोगोऽभिन्न : सह विद्यमानता तु भिन्न रित्यनयोर्भेदः,10 विद्यमानतायाम्-अनु कर्माणि संसारीत्युद हरणं ज्ञातव्यम् ।। ३८ ।।
उत्कृष्टेअनूपेन ॥ २. २. ३६ ॥
उत्कृष्टेऽर्थे वर्तमानादनूपाभ्यां युक्ताद् गौणान्नाम्नो द्वितीया भवति । अनु सिद्धसेनं कवयः, अनु मल्लवादिनं तार्किकाः, उपोमास्वाति सङ्ग्रहीतारः, उप जिनभद्रक्षमाश्रमणं व्याख्यातारः, तस्मादन्ये हीना इत्यर्थः ।। ३६ ।। 15
न्या० स०--उत्कृ०। स्वयमेव उत्कृष्यते स्म कर्मकर्तरि क्तः, उत्कृष्टशब्दो होनापेक्षः, तेन होनोत्कृष्टसम्बन्धेऽनुना द्योत्ये द्वितीयाऽनेन विधीयते । उमां-कीति सुष्टु अततोति “पादाच्चात्यजिभ्याम्" [उणा० ६२०.] इति इ: णित्; यद्वा-उमा-कीतिः स्वातिरिवोज्ज्वला यस्य; यद्वा-उमा-माता, स्वाति:-पिता, तयोर्जातत्वात् पुत्रोऽप्युमास्वातिः ।। २. २. ३६ ।।
.२.४०॥
गौणानाम्नः कर्मणि कारके द्वितीया भवति । कटं करोति, प्रोदनं पचति, आदित्यं पश्यति, अहिं लङ्घयति, ग्रामं गच्छन् वृक्षमूलान्युपसर्पति, अजां नयति ग्रामम्, गां दोग्धि पयः । अथेह कस्मान्न भवति ?-क्रियते कटः, कृतः कटः, शतेन क्रीत:-शत्यः पटः; आरूढो वानरो यं स आरूढवानरो वृक्ष25 इति; त्यादि-कृत्-तद्धित-समासैरभिहितत्वाल्लोक-शास्त्रयोश्चाभिहितेऽर्थे शब्दप्रयोगायोगात् । यद्यवं कटं करोति भीष्ममुदारं दर्शनीयमिति भीष्मादि