________________
[पा० २. सू० ४४.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ २४६
'टा-भ्याम्-भिस्' लक्षणा यथासंख्यमेक-द्वि-बहौ तृतीया विभक्तिर्भवति, व्याप्तौ गम्यायाम् । मासेन मासाभ्यां मासैर्वाऽऽवश्यकमधीतम्, क्रोशेन क्रोशाभ्यां, क्रोशैर्वा प्राभृतमधीतम् । सिद्धाविति किम् ? मासमधीत आचारो नानेन गृहीतः, अत्र व्याप्तिमात्रं गम्यते न सिद्धिः । भावादपीच्छन्त्यन्ये-गोदोहेन कृतः कट: । द्वितीयाऽपवादो योगः ॥ ४३ ।।
न्या० स०--सिद्धौ तृ०। सिद्धाविति-यद्यपि त्रिप्रकारा व्याप्तिः प्रस्तुता तथापि सामर्थ्यात् क्रियाव्याप्त रेव सिद्धाविति विशेषणम्, यस्य ह्यारम्भस्तस्य सिद्धिः, द्रव्यगुणयोश्च सिद्धरूपयोः शब्देनाप्रतिपादनान्न तावारभ्येते, नापि निष्पद्यते इति न ताभ्यां व्याप्त: सिद्धया संबन्धः । ननु यदि क्रिया सिद्धि व्यभिचरेत् तदा युज्येत एतद्विशेषणं क्रियाव्याप्त:, न च काचित् क्रियाऽपरिसमाप्ताऽस्ति, सत्यमेतत्-किन्तु काचित् फलं संपाद्य10 समाप्यते, काचिदन्यथा, तत्र विशेषणोपादानसामर्थ्यादधिगतफला या समाप्यते तद्व्याप्तौ द्वितोयाबाधिका तृतीयेत्याह-कियाफलेत्यादि। मासेनावश्यकमिति-अत्र आवश्यकं नामअध्ययनविशेषः, अधीतमिति सिद्धं गृहीतं शिक्षितमिति यदर्थमध्ययनं तत्फलनिष्पत्तिर्गम्यते। द्वितीयापवाद इति-काला-ऽध्वनोाप्त विद्यमानत्वात् पूर्वेण द्वितीयायां प्राप्तायां तबाधनार्थों योगः, तेन यदुच्यते कश्चिद्-'मासेनाऽनुवाकोऽधीतः, क्रोशेनानुवाकोऽधीत इति करण एव15 तृतीया इतीद नारम्भणीयम्' इति तदसम्यगिति ।। २. २. ४३ ।।
हेतु-कत करणेत्थम्भूतलक्षणे ॥ २. २. ४४ ॥
फलसाधनयोग्यः पदार्थों हेतुः, इम-कञ्चित् प्रकारं भूतः-पापन्नःइत्थम्भूतः, स लक्ष्यते येन स इत्थम्भूतलक्षणः; हेत्वादिष्वर्थेषु वर्तमानाद् गौणान्नाम्नस्तृतीया भवति । हेतौ-धनेन कुलम्, अन्नन वसति, विद्यया यशः,20 कन्यया शोकः, तीक्ष्णेन परशुना छिनत्ति; कर्तरि-चैत्रेण कृतम्, मैत्रेण भुज्यते; करणे-दात्रेण लुनाति, मनसा मेरु गच्छति, समेन धावति-समेन पथा ग्रामं धावतीत्यर्थः, एवं-विषमेण धावति, आकाशेन याति; आधारविवक्षायां तु सप्तम्यपि-समे धावति, विषमे धावति, आकाशे याति; इत्थम्भूतलक्षणे-अपि भवान् कमण्डलुना छात्रमद्राक्षीत्, चूलया परिव्राजक-25 मद्राक्षीत्; छात्रत्वादिकं प्रकारमापन्नस्य मनुष्यस्य कमण्डल्वादि लक्षणम् । इत्थम्भूतग्रहणं किम् ? वृक्षं प्रति विद्योतनम् । अपि भवान् कमण्डलुपाणि छात्रमद्राक्षीदित्यत्र तु लक्ष्यप्रधानो निर्देशो न लक्षणप्रधान इति न भवति ।