________________
[पा० २. सू० ३३. ] श्री सिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ २४१
तैर्युक्तादेक-द्वि-बहौ यथासङ्ख्यम् अमौशस्रूपा द्वितीया विभक्तिर्भवति; षष्ठयपवादः । समया पर्वतं नदी, निकषा पर्वतं वनम् हा देवदत्तं वर्ध व्याधिः, धिग् जाल्मम्, अन्तरा निषधं नीलं च विदेहाः, अन्तरेण गन्धमादनं माल्यवन्तं चोत्तराः कुरवः, अन्तरेण धर्मं सुखं न भवति, अति वृद्धं कुरून् महद् बलम्, कुर्वतिक्रमेण वृद्धमित्यर्थः ; येन पश्चिमां गतः तेन पश्चिमां नीतः । 5 अन्तराऽन्तरेणशब्दौ साहचर्यान्निपातौ गृह्यते, तथाऽन्तराशब्दो मध्यमाधेयप्रधानमाचष्टे, अन्तरेणशब्दस्तच्च विनार्थं च; तेनेह न भवति - राजधान्या अन्तरायां पुरि वसति, किं ते केशवाऽर्जुनयोरन्तरेण गतेनेति । ' हा तात !, धिग् जाल्म !, हा सुभ्रु ! इत्यादावामन्त्र्यतया विवक्षा, न हादियुक्तत्वेनेति न भवति । हा कृतं चैत्रस्य, धिक् कृतं मैत्रस्येत्यत्र च हा धिक्शब्दाभ्यां कृतशब्दे 10 न्यग्भूतत्वान्न चैत्रादेः साक्षाद् योगः, किं तर्हि ? तद्विशिष्टेन कृतशब्देन । बहुवचनादन्येनापि युक्ताद् भवति न देवदत्तं प्रति भाति किञ्चित्, बुभुक्षितं
प्रतिभाति किञ्चित्, "वृणीष्व भद्र े ! प्रति भाति यस्त्वाम्,” “योऽक्षपादमृषिं न्यायः, प्रत्यभाद् वदतां वरम्”, धातुसम्बद्धोऽत्र प्रतिस्तेन " भागिनि च प्रतिपर्यनुभिः” [ २. २. ३७ ] इति न सिध्यति । गौणादिति किम् ? अन्तरा 15 गार्हपत्यमाहवनीयं च वेदि:, अत्र प्रधानाद् वेदिशब्दान्न भवति ।। ३३ ॥
न्या० स० - गौरणात् स० । गौरणादिति - "तत श्रागते" [६. ३. १४६.] प्रज्ञाद्यfण वा अत्र सूत्रे येन तेनौ मुक्त्वाऽन्ये वाचकाः । समया पर्वतं नदी निकटे निकटा वा । निकर्षाति दूरभावं “समिरण - निकषिभ्यामाः " [ उरणा० ५६८.], जहाति सौख्यं विच्, धयति निन्दाभावं " द्रागादयः ' [ उण० ८७० . ] इति निकषा - हा धिक्शब्दानां 20 व्युत्पत्तिः । हा देवदत्तमिति-हा-कष्टं देवदत्तस्य यतो वर्द्धते व्याधिः । अन्तरा निषधमिति - अन्तं राति "डित्" [ उणा० ६०५. ] इत्या: । अन्तरेण गन्धमादनमिति - अन्तरे - मध्ये नयति " क्वचित्" [५. १. १७१.] इति डे " तत्पुरुषे कृति" [ ३.२.२०. ] इत्युलुपि “पूर्वपदस्थ०” [ ३. ३. ६४ ] इति णत्वे च यद्वा - अन्तरेति " इणुर्विशावेणि ० ' [ उणा० १८२. ] इति राप्रत्ययः । अति वृद्धमिति - कुरूणामतिक्रमेण पाण्डवानां महद् - 25 बृहद् बलं वर्त्तत इत्यर्थः । येन पश्चिमामिति श्रत्र येन तेनौ लक्ष्यलक्षणभावं द्योतयतः, पश्चिमां प्रति लक्ष्यीकृत्य गत इत्यर्थः, अयं गतः, कां प्रति ? पश्चिमां, पश्चिमया लक्षणेन देवदत्तस्याप्रसिद्धं गमनं लक्ष्यते । अन्तराऽन्तरेणेति प्रथाऽऽन्तराशब्दः स्त्रियामाबन्तोऽप्यस्ति, अव्ययं च अन्तरेणेत्यपि अन्तराशब्दात् तृतीयायां भवति, अव्ययं च तत्र विशेषानुपादानात् सामान्येनोभयस्यापि ग्रहरणं कुतो न भवतीत्याह - साहचर्यादिति समया - 30
"
ܙܕ