________________
२४२ ]
बृहद्वृत्ति - लघुन्याससंवलिते
[ पा० २. सू० ३४-३६.]
दिभिर्निपातैः सहैकवाक्योपात्तत्वादेतावपि निपातावित्यर्थः । अन्येनापीति- द्विधा व्याख्येयन् - समयादिव्यतिरिक्त ेन यावच्छब्दादिना नाम्ना नामव्यतिरिक्त ेन धात्वादिनापि योगे गौरणान्नाम्नो द्वितीया भवतीति । अक्षं - तृतीयनेत्रं पादे यस्य स तथा ।। २. २. ३३ ।।
द्विवत्वेऽधो-अध्युपरिभिः ।। २. २. ३४ ।।
अधस् - अधि- उपरिभिर्युक्ताद् गौरणान्नाम्न एषामेव द्वित्वे सति द्वितीया 5 भवति, षष्ठ्यपवादः ; बहुवचनमेक-द्वि-बहाविति यथासङ्ख्यनिवृत्त्यर्थम् । अधोऽधो ग्रामं ग्रामाः, अध्यधि ग्रामं क्षेत्राणि; उपर्युपरि ग्रामं ग्रामाः । द्वित्व इति किम् ? अधः प्रासादस्य, हर्म्यस्योपरि प्रासादः ; असामीप्याच्च द्वित्वं न भवति ।। ३४ ।
न्या० स०--- द्वित्वेऽधो० । “सामीप्येऽधोऽध्युपरि " [ ७. ४. ७६ ] इति द्वित्वम् 110 असामीप्याच्चेति-अत्रौत्तराधर्यमात्रं विवक्षितं न सामीप्यमिति द्वित्वाभावः ।। २. २. ३४।।
सर्वोभया-भि-परिणा तसा ॥ २. २.३५ ।।
सर्वादिभिस्तसन्तैर्युक्ताद् गौणान्नाम्नो द्वितीया भवति, षष्ठ्यपवादः । सर्वतो ग्रामं वनानि, उभयतो ग्रामं वनानि, अभितो ग्रामं क्षेत्रारिण, परितो ग्रामं क्षेत्राणि ।। ३५ ।।
न्या० स० - सर्वोभ० । सर्वादिविशेषणत्वात् “ विशेषरणमन्तः” [ ७. ४. ११३.] इति न्यायात् सर्वादिभिस्तसन्तैरिति ।। २. २. ३५ ।।
15
लक्षण-वीपस्येत्थंभूतेष्वभिना । २. २.३६ ॥
लक्ष्यते दर्श्यते येन तल्लक्षणं - चिह्नम्, अवयवशः समुदायस्य क्रियादिना साकल्येन प्राप्तीच्छा - वीप्सा, तत्कर्म वीप्स्यम्; केनचिद् विवक्षितेन विशेषेण 20 भाव इत्थंभाव:, तद्विषय इत्थंभूतः एष्वर्थेषु वर्तमानादभिना युक्ताद् गौरणान्नाम्नो द्वितीया भवति । वृक्षमभि विद्योतते विद्युत्, अत्र वृक्षो लक्षणम्, विद्योतमाना विद्युल्लक्ष्यम्, अनयोश्च लक्ष्यलक्षणभावः सम्बन्धोऽभिना द्योत्यते ; वृक्षं वृक्षमभि सेक:, एकैकस्य वृक्षस्य सेक इत्यर्थः; साधुर्देवदत्तो मातरमभि, मातृविषये साधुत्वप्रकारं प्राप्त इत्यर्थः । लक्षणादिष्विति किम् ? यदत्र 25
T