________________
बृहद्वृत्तिलघुन्याससंवलिते
[ पा० २. सू० ३२-३३.]
तिवादीनामेकवचनादीनि प्रवर्तन्ते तथा स्यादीनामपि प्रवर्त्तेरन्, एवं वाक्यादप्यवयवगतां वर्णाच्च निरर्थकादपि स्वरूपगतां सङ्ख्यामाश्रित्य प्रथमा स्यादित्याह - निरर्थकाद् वर्णाद् धातु- वाक्याम्यां चेति-उपलक्षणत्वात् पदादपि । नन्वर्थमात्रे प्रथमेत्युक्तत्वान्मात्रग्रहणस्य चाधिकार्थव्यवच्छेदकत्वाद् वीरपुरुष इत्यादौ सामानाधिकरण्येनार्थमात्राद् विशेषणविशेष्यभावस्याधिकस्य प्रतीतेः प्रथमा न प्राप्नोति, समासविधानमपि प्रथमो - 5 त्पत्ते लिङ्ग न भवति, वीरपुरुषमानयेति द्वितीयाद्यन्तानामपि समाससम्भवादिति प्रथमा न विधेया, नैष दोषः - प्राधिक्यस्य वाक्यार्थत्वाद् वीरनाम्नोऽनपेक्षितशब्दान्तरार्थसंसर्गोपविशेषणभावात् स्वार्थमात्रनिष्ठात् प्रथमा विधीयते, एवं पुरुषशब्दादपि ।। २. २. ३१ ।।
आमन्त्र्ये ॥ २. २. ३२ ।।
प्रसिद्धतत्सम्बन्धस्य किमप्याख्यातुमभिमुखीकरणमामन्त्ररणम्, तद्विषय 10 आमन्त्र्यः ; तस्मिन्नर्थे वर्तमानान्नाम्न एक-द्वि- बहौ यथासंख्यं प्रथमा विभक्तिर्भवति । हे देवदत्त !, हे देवदत्तौ !, हे देवदत्ताः ! ; हे पचन् !, हे पचमान ! | आमन्त्र्य इति किम् ? राजा भव, अत्र राजा नाऽऽमन्त्र्यः, किन्तु स एव विधीयत इति पूर्वेणैव प्रथमा । षष्ठीप्राप्तौ वचनम् ।। ३२ ।।
२४० ]
न्या० स० -- आमन्त्र्ये । प्रसिद्ध तत्सम्बन्धस्येति - तेन - पाण्डित्य - देवदत्तत्वादिना 15 प्रवृत्तिनिमित्तेन सम्बन्धः, यद्वा तेन - आमन्त्र्यवाचिना देवदत्तादिशब्देन सम्बन्धो वाच्य - वाचकभावलक्षणः, प्रसिद्धस्तत्सम्बन्धो यस्य देवदत्तादेस्तस्य कर्मतापन्नस्य, येन शब्देन आत्मा निरवधानः सावधानः क्रियते तदामन्त्ररणमिति स्पष्टार्थः । तद्विषय श्रामन्त्रय इति श्रामन्त्रयपदं हि क्रियाया विशेषणं भवति; हे देवदत्त ! व्रजाम्यहमित्यत्राभिमुखीकृत देवदत्तविशिष्टा व्रज्या प्रतीयते, यदाह हरि:
" ग्रामन्त्रित पदं यच्च तत् क्रियाया विशेषकम् । व्रजामि देवदत्तेति निघातोऽत्र प्रतीयते" ।। १ ।।
ततश्व देवदत्तादेः क्रियाविशेषणात् कर्माद्यतिरिक्तामन्त्ररणसम्बन्धे शेषरूपे वर्तमानाद् गौरणात् प्रथमापवादः षष्ठी प्राप्नोति तद्बाधनार्थमिदमुच्यते, सम्बन्धश्वामन्त्र्यामन्त्ररणभावो विषयविषयिभावो वा ।। २. २.३२ ।।
गौणात् समया-निकषा-हा-धिगन्तरान्तरेणा-इतियेन-तेनैद्द्वितीया ॥ २. २. ३३ ॥
श्राख्यातपदेनासमानाधिकरणं गौरणम् गौणान्नाम्नः समयादिभिर्निपा
20
25
T