________________
[पा० २. सू० ३१.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ २३६
[ ६. १. ११४. ] अञ्। स्वार्थस्य व्यवच्छेद्यमिति-अत्र कर्तरि षष्ठी, स्वार्थेन व्यवच्छिद्यते। शक्त्याद्याश्रय इति-आदिशब्दात् स्वरूपादिस्वार्थपरिग्रहः । इयं जातिरितिजातिव्यमेकत्वं नित्यत्वं व्यापकत्वं च स्वार्थः । अयं गुरण इति-तेन कर्मादिभ्यो व्यवच्छिद्यते, रूप-स्पर्श-गन्धादयो द्रव्यं गुणत्वं स्वार्थः । इद कमंति-तेन गुरणादिभ्यो व्यवच्छिद्यते, कर्मत्वं प्रवृत्तिनिमित्तम् । यदर्थे सदसद्वेति-शब्दधर्मो लिङ्गमिति मता- 5 पेक्षया । भेदप्रतिपत्तिहेतुरिति-भेदो विशेषज्ञानोत्पत्तिरूपः, तया हि पदार्थानां भेदः प्रतीयते, भेदः परिगणनं संख्येति लक्षणत्वात् तस्याः । ननु नामार्थव्यतिरेकेणान्येषामेकत्वादीनां विशेषणभूतानामभावादेक इत्यादौ प्रथमाया अभावः प्राप्नोतीत्याह-निमित्तमिति-निमित्तमेकत्वसंख्यालक्षणम्, तद्वतस्त्वेकत्वसङ्ख्यावतो यदेकत्वं तत्र विभक्तिप्रवृत्तिः, यथा वृक्ष इत्यत्र वृक्षत्ववतो द्रव्यस्यैकत्वं प्रतिपाद्यते, तथाऽत्राप्येकेन सामान्यमेकत्वं 10 सिना त्वेकत्वसङ्ख्यावत एकत्वं प्रतिपाद्यते, यथा-सामान्यं दण्डमानय दण्डिनो दण्डमानयेति । त्यादिभिरिति-तिशब्देन तिवादय आख्यातप्रत्यया आदिशब्देन च कृततद्धित-समासा उच्यन्ते । व्यतिरेकेति-व्यतिरिच्यत इति व्यतिरेकस्तस्मिन् व्यतिरेकेनामार्थादतिरेके आधिक्ये द्वितीयाद्या विभक्तयो व्यतिरेकविभक्तयः, विशेषविभक्तय इत्यर्थः । तत्पूर्वकसम्बन्धरूपा' चेति-ते क्रियाकारके पूर्वे यस्य स चासो सम्बन्धश्च स15 एव रूपं यस्याः शक्त: सा तथा। स्नानीयं चूर्णमित्यादिषु सर्वेषु बाहुलकात् करणादिष्वनीयादयः । उपचरितमपीति-अध्यारोपितमित्यर्थः, सहचरण-स्थान-तादर्थ्यवृत्तमान-धरण-सामीप्य-योग-साधना-ऽऽधिपत्येभ्यो ब्राह्मण-मञ्च-कट-राज-सक्त-चन्दन-गङ्गाशाटका-ऽन्न-पुरुषेष्वतद्भावेऽपि तद्वदुपचारः। छत्रिणो गच्छन्ति-छत्रिसहचरिताः पुरुषा यान्तीत्यर्थः । शक्तिप्रधानमपीति-यत इत्यादिभ्योऽपादानादिशक्तीनां प्रतीयमानत्वं न20 शक्तिमतोऽतोऽर्थमात्र शक्तिप्रधानम्। द्योत्यमपीति-प्राद्युपसर्गाणां क्रियार्थद्योतकत्वाद् अन्यथोपसर्गत्वाभावात् तदर्थमात्रं द्योत्यमेवेति । स्वरूपमात्रमपीति-सोपसर्गा-ऽनुपसर्गधात्वर्थस्याध्यादिभिर्वैशिष्टयाप्रतीतेः; आगच्छतीत्यादिक्रियापदार्थ एव तदर्थ इत्यर्थः । नाम्न इति किमिति-ननु वर्णस्य निरर्थकत्वाद् धातु-वाक्यार्थयोश्चासत्त्वरूपत्वात् संख्यायाः सत्त्वधर्मरूपत्वेन प्रवृत्त्यभावात् सत्त्ववाचिनो नाम्न एव प्रथमा भविष्यति, किं नाम्न 25 इत्यनेन ? उच्यते-यथा धातोरसत्त्ववाचित्वेऽपि साधनाश्रयामेकत्वादिसङ्ख्यामाश्रित्य
१. अयमर्थ:-राज्ञः पुरुष इत्यत्र योऽयं राज-पुरुषयोः सम्बन्धो नायं कारणान्तरनैरपेक्ष्येणाकस्मादपजायते, अपि तु, अन्तर्भूतक्रियाकारकसम्बन्धनिबन्धनः, यतः पुरुषो योगक्षेमकामो राजानमुपसर्पति, राजापि तमभिलषितधनदानादिना बिति; क्रियान्तरं वा प्रकल्पनीयं, ततो राज्ञाऽसौ सम्बन्धीभूत इति राज्ञः पुरुष इति । उपगोरपत्यमित्यत्रापि30 जनिक्रियाजनितः सम्बन्धः-उपगुरपत्यं जनयति, तदपि ततो जायत इत्युपगोरपत्यमिति । पशोः पाद इत्यत्रापि-अवस्थितिक्रियालम्भितः सम्बन्धः, यतः पशु पादेऽवस्थितोऽतः पशो: पाद इति । एवं वृक्षस्य शाखेत्यादावप्यवयवक्रियाजनितत्वं सम्बन्धस्येति ।।