________________
२३८ ]
बृहवृत्ति-लघुन्याससंवलिते
पा० २. सू० ३१.]
अर्थमात्रं चोपचरितमपि, यथा साहचर्यात्-कुन्ताः प्रविशन्ति, छत्रिणो गच्छन्ति; स्थानात्-मञ्चाः क्रोशन्ति ; गिरिदह्यते; तादात्-इन्द्रः स्थूणा, प्रदीपो मल्लिका; वृत्तात्-यमोऽयं राजा, कुबेरोऽयं राजा; मानात्-प्रस्थो व्रीहिः, खारी मुद्गाः, धरणात्-तुला चन्दनम् ; सामीप्यात्-गङ्गातटं गङ्गा; योगात्-रक्तः कम्बलः; साधनात्-अन्न प्राणाः, आयुर्घ तम्; आधिपत्यात्- 5. ग्रामाधिपतिमिः । अलिङ्गमपि त्वम्, अहम्, पञ्च, षट्, कति ; अलिङ्गसङ्खयमपि-उच्चैः, नीचैः, स्वः, प्रातः; शक्तिप्रधानमपि-यतः, यत्र, यथा, यदा; द्योत्यमपि-प्रपचति, प्रतिष्ठते, प्रतीक्षते, प्रतिपालयति; स्वरूपमात्रमपिअध्यागच्छति, पर्यागच्छति, प्रलम्बते, निषिञ्चति । तदयं वस्तुसंक्षेपःत्याद्यन्तपदसामानाधिकरण्ये प्रथमेति, यत्रापि त्याद्यन्तं पदं न श्रूयते-वृक्षः,10 प्लक्ष इति, तत्रापि गम्यते, यदाह-'यत्रान्यत् क्रियापदं न श्रूयते तत्रास्तिर्भवन्तीपरः प्रयुज्यते' इति। नाम्न इति किम् ? निरर्थकाद् वर्णाद् धातुवाक्याभ्यां च मा भूत् । एक-द्वि-बहाविति च सङ्करनिवृत्त्यर्थम् । ननु चाव्ययेभ्य एकत्वाद्यभावादनेन प्रथमा न प्राप्नोति, सत्यम्-लुम्विधानात् तु विभक्तीनां विधिविज्ञायते तदन्तर्गतत्वाच्च प्रथमाया अपि, तस्य च फलम्-15 अथो स्वस्ते गृहम्, अथो स्वस्तव गृहमित्यादिषु “सपूर्वात् प्रथमान्ताद् वा" [२. १. ३२.] इति विभाषया 'ते-मे' आदेशौ, पदसंज्ञा च "अव्ययस्य" [ ३. २. ७. ] इत्यत्र वक्ष्यते । एक-द्वि-बहावित्यादिविभक्तिविधानादिति ।। ३१ ।।
न्या० स०--नाम्नः प्रथ० । तत्रेति-एवं स्थिते सतीत्यर्थः । तेष्विति पञ्चकस्य 20 नामार्थस्य क्रमेण लक्षणमाह-जातिरिति-नित्यत्वैकत्वे सत्यनेकत्र समवेता जातिः, अत्र जातिलक्षणे नित्यपदाभावे पटेन व्यभिचारः, एकत्वाभावे विशेषेषु व्यभिचारः, अनेकत्राभावे परमारणौ विशेषेण व्यभिचारः। सम्बन्धादीति-आदिशब्दानित्यद्रव्यवृत्तयोऽन्त्या विशेषा अतीन्द्रियदृष्टिगम्या योगिसंवेदनीयाः, तेऽपि स्वार्थः । स्वार्थ इति-स्वस्यैवार्थः स्वार्थो विशेषणमसाधारणोऽर्थः प्रवृत्तिनिमित्तमिति । गौरिति-जातिरनुवृत्तप्रत्ययहेतु:,25 अत्र तद्विशिष्टस्य द्रव्यस्य प्रतोतेर्जातिः स्वार्थः । शुक्ल इति-गुणः शुक्लत्वादिः, शुक्लः पट इत्यादौ तद्विशिष्टस्य द्रव्यस्य प्रतीतेर्गुणः स्वार्थः। गर्गा इति-गर्गस्यापत्यानि ''गर्गादेर्य" [६. १. ४२.], “यात्रौ." [६. १. १२६.] इत्यनेन लोपः। पञ्चाला इति-पञ्चालानां राष्ट्रस्य राजानः, पञ्चालस्य राज्ञोऽपत्यानि वा “राष्ट्र-क्षत्रियात्."